________________
वादार्थसंग्रहः
[३ भागः
नास्तीत्वस्य दुर्वचत्वाच्च । किंच शाब्दबोधे वृत्त्या पदजन्यपदार्थोपस्थितेहेतुतया फलविषयकशाब्दबोधं प्रति द्वितीयाजन्योपस्थितेर्हेतुत्वे गौरवम् । नच धातुजन्यफलोपस्थितेर्हेतुत्वं कल्प्यमिति साम्यमिति वाच्यम् । फलविशेषबोधे धातुविशेषसमभिव्याहारस्य नियामकत्वेन तदंशे साम्यात् । अथाश्रयमानं द्वितीयार्थ इति द्वितीयाजन्योपस्थितेर्हेतुत्वकल्पने साम्यमिति चेन्न, ग्राममध्यारतेऽधिशेते इत्यादिप्रयोगानुरोधेनाश्रयत्वबोधं प्रति तद्वेतुत्वस्य भवतोऽप्यावश्यकत्वात् ।
किंच व्यापारमात्रस्य धात्वर्थत्वे पच्यते तण्डुलः स्वयमेवेत्यादौ कर्मवद्भावानापत्तिः । नच धात्वर्थजन्यफलाश्रयत्वमेव कर्मवद्भावविषय इति वाच्यम्, (पच्यते? यत्यते) घटः स्वयमेवेत्यस्याप्यापत्तेः । धात्वर्थयत्नजन्योत्पत्तिरूपफलस्य घटे सत्त्वात् । अन्यथा क्रियते घट: स्वयमेवेत्यस्यानापत्तेः । क्रिया च व्यापारसमुदायः । तदुक्तं हरिणा---
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ।। इति । एतेन धात्वर्थः क्रिया तद्वाचकत्वं च धातुत्वमित्यन्योन्याश्रयोऽपास्तः । साध्यत्वं च क्रियान्तरानुत्थापकत्वं तदेवासत्त्वभूतत्वम् । एतदेवाभिप्रेत्योक्तं हरिणा
असत्त्वभूतो भावश्च तिपदैरभिधीयते । इति । व्यापाराणामनन्ततेति तदादिन्यायेन बुद्धिविशेषादेरेव शक्यतावच्छेदुकानां नियामकत्वात् । लकारविशेषाणां लडादीनां तु वर्तमानत्वादिकमप्यर्थः । वर्तमानत्वं च प्रारब्धाऽपरिसमाप्तक्रियोपलक्षितत्वम् । वर्तमानत्वादीनां तु धात्वर्थव्यापारे एवान्वयः । तत्सत्त्वे एव पचतीत्यादिप्रयोगात् । ___ तर्किकास्तु यत्न एव वर्तमानत्वादीनामन्वयः, यत्नाभावेऽग्निसंयोगादिरूपव्यापारसत्त्वेऽप्ययं न पचतीति प्रयोगात्। वस्तुतस्तु यत्नस्यापि व्यापारविशेषत्वाददोषः । किंच जानातीत्यादौ व्यापार एव तेषां वर्तमानत्वान्वयः । नष्टे नश्यतीति प्रयोगवारणायोत्पत्तेरप्याख्यातार्थत्वं स्वीकृत्य तत्रैव वर्तमानत्वादीनामन्वय इति दीधितिकृतापि स्वीकारादनेककार्य. कारणभावप्रसङ्गः । नच व्यापारे तदन्वये नाशस्य वर्तमानत्वान्नष्टेऽपि घटे नश्यतीति प्रयोगापत्तिरिति वाच्यम, प्रतियोगिसहितनाशसाम