________________
६८
वादार्थसंग्रहः तस्मादन्ययोगव्यवच्छेदमात्रमेवकारार्थः । शङ्खः पाण्डुर एवेत्यादावपि शङ्ख तत्त्वावच्छेदेन पाण्डुरान्ययोगव्यवच्छेदसंभवात् । नीलं सरोजं भवत्येवेत्यादावपि तिङो धर्मिणि लक्षणया नालभवनकर्जन्ययोगव्यवच्छेदस्य सरोजत्वसामानाधिकरण्येन बोधे बाधकाभावः । ज्ञानमथै गृह्णात्येवेत्यादावपि तिङो धर्मिणि लक्षणया ज्ञानत्वावच्छेदेनार्थग्राहकान्ययोगव्यवच्छेदबोधः।।
न च सरोजादौ नीलभवनकर्तृत्वाद्ययोगव्यवच्छेदबोधोऽस्तु धर्मिणि लक्षणा वृथेति वाच्यम् । एकपदे शक्तिद्वयकल्पनायां गौरवात् । न चैवार्थत्रैविध्यप्रसिद्धिविरोध इति वाच्यम् । तस्य नियुक्तिकत्वेनानुपादेयत्वात् ।
न चान्ययोगव्यवच्छेदस्य क्वचिदन्वयितावच्छेदकावच्छेदेन क्वचिसामानाधिकरण्येनान्वये किं नियामकमिति वाच्यम् । नियमपरवाक्यस्यावच्छेदकावच्छेदेन तदन्वये, संभवपरवाक्यस्य सामानाधिकरण्येन तदन्वये नियामकत्वात् ।
अत्रैवकारशक्योऽन्ययोगव्यवच्छेदो विलक्षणप्रतियोगितयाऽन्ययोगविशिष्टव्यवच्छेदरूपो बोध्यः । विलक्षणेत्युपादानात्पार्थान्ययोगगगनोभयत्वावच्छिन्नव्यवच्छेदस्य मनुष्ये सत्त्वेऽपि पार्थ एव मनुष्य इत्यादेन प्रसङ्गः।
यद्यप्ययं सामान्यतोऽन्ययोगघटितः शक्यस्तथाऽपि तात्पर्यवशात्पार्थ एव धनुर्धर इत्यादौ तादात्म्यरूपयोगघटित उपस्थाप्यते । अन्यत्र समवेतत्वादियोगघटितः । तथा हि-पुधिव्यामेव गन्ध इत्यादौ पृथिव्यन्यसमवेतत्काभाववान्पृथिवीसमवेतत्ववांश्च गन्ध इति बोधः । अन्यथा सप्तम्युपस्थापितसमवेतत्वमनन्वितं स्यात् । पृथिवीपदार्थस्य सप्तम्यर्थैवकारयोरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । एवं चैत्रस्यैवेदं धनमित्यादौ चैत्रान्यस्वत्वाभाववत् चैत्रस्वत्ववच्चेदं धनमिति बोधः । मैत्रस्यैवायं भ्रातेत्यादौ मैत्रान्यभ्रातृत्वव्यवच्छेदबोधो लक्षणयैव, अन्यभ्रातृत्वादेरन्यसंबन्धत्वाभावेन तव्यवच्छेदस्यैवकाराशक्यत्वादित्यायुह्यम् । कचिदेकदेशान्वयस्वीकारात् . अन्ययोगव्यवच्छेदैकदेशेऽन्यत्वे पार्थादेः पदार्थस्यान्वयो निष्कलङ्कः । अधिकमस्मत्कृतपदार्थमालाप्रकाशे, इत्यलमतिविस्तरेण ॥
इत्येवकारवादः संपूर्णः।