________________
श्रीगणेशाय नमः।
एवकारवादः ९
एवकारस्त्रिविधः विशेष्यसंगतः, विशेषणसंगतः, क्रियासंगतश्चेति । -
अत्र विशेष्यसंगतस्य एवकारस्यान्ययोगव्यवच्छेदोऽर्थः । पार्थ एव धनुर्धर इत्यादौ विशेषणे धनुर्धरे पार्थान्ययोगव्यवच्छेदबोधात् धनुर्धरपदस्योत्कृष्टधनुर्धरे लाक्षणिकत्वात् । तथैव तात्पर्यात् । पार्थान्यस्य योगतादात्म्यम् । विशेपणसंगतस्यैवकारस्यायोगव्यवच्छेदोऽर्थः । शङ्खः पाण्डुर एवेत्यादौ विशेष्ये शङ्के पाण्डुरत्यायोगव्यवच्छेदबोधात् । क्रियासंगतस्यैवकारस्य चात्यन्तायोगव्यवच्छेदोऽर्थः । संभवाभिप्रायके नीलं सगेज भवत्येवेत्यादौ अन्वयितावच्छेदकसरोजत्वसामानाधिकरण्येन सरोजे नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदवोधादिति संप्रदायः ।
तन्नति दीधितिकृतः। तथाहि नात्यन्तायोगव्यवच्छेदोऽर्थः । स ह्यात्यन्तिकस्यायोगस्य व्यवच्छेदः, आत्यन्तिको व्यवच्छेदो वा । नाद्यः आत्यन्तिकत्वस्यान्वयितावच्छेदकव्यापकत्वरूपतया सरोजत्वव्यापकस्य नीलभवनकर्तृत्वायोगस्याप्रसिद्धत्वेन तद्व्यवच्छेदासंभवात् । न द्वितीयः सरोजनिष्ठनीलभवनकर्तृत्वायोगव्यवच्छेदस्याप्यप्रसिद्धत्वात् । अथायोगे आत्यन्तिकत्वव्यवच्छेदः, सरोजनिष्ठनीलभवनकर्तृत्वायोगे सरोजत्वव्यापकत्वस्य द्रव्यत्वादी प्रसिद्धस्य व्यवच्छेदवोधसंभवादिति चेन्न, सरोजविशेषणत्वेनोपस्थितस्य सरोजत्वस्यात्यन्तिकत्वेऽन्यासंभवात् । न च सरोजपदं सरोजत्वे लाक्षणिक, तथा च नान्यविशेषणत्वेनोपस्थितिरित वाच्यम् । ईदृशबोधस्य नीलभवनकर्तृत्वायोगव्यवच्छेदः किंचित्सरोजनिष्ठ इत्यत्रैव पर्यवसानात् । तत्सरोजत्वसामानाधिकरण्येन नीलभवनकर्तृत्वायोगव्यवच्छेद एवास्तु कृतमत्यन्तायोगव्यवच्छेदस्वीकारेण ।। __ अयोगव्यवच्छेदोऽपि नार्थः, शङ्खः पाण्डुर एवेत्यादौ पाण्डुरत्वादेः पाण्डुरादिविशेषणत्वेनोपस्थितस्यायोगेऽन्वयासंभवेन तदयोगव्यवच्छेदबोधादेरसंभवात् । न च पाण्डुरादिपदं पाण्डुरत्वादौ लाक्षणिकमिति वाच्यं, तथा सति शङ्खः पाण्डुरत्वमेवेति प्रयोगापत्तिः, पाण्डुर एवेत्यादिवदत्रापि पाण्डुरत्वायोगव्यवच्छेदबोधसंभवात् ।