SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ वादार्थसंग्रहः [२ भागः एकशेषः । .विरुकशेषे पितरावित्यादौ लुप्तमातृपदस्मरणान्मातृत्वपितृत्वाभ्या जनकशरीरत्वेन. पितृपदलक्षणया वा मातापित्रोरन्वयधीः । पितृपदं शक्त्या पितुर्लक्षणया मातुर्बोषकमित्यन्ये । एवं श्वशुरावित्यादावपि पतिपत्नीजनकशरीरत्वादिना प्रातिस्विकरूपेण बोधः।। सरूपैकशेषे दम्पतीपूजाप्रकरणे ब्राह्मणावानयेत्यादौ ब्राह्मणीपदस्मरणाद्राह्मणत्वब्राह्मणीत्वाभ्यां ब्राह्मणत्वेनैव वा स्त्रीपुंब्राह्मणयोर्बोधः । पुंस्त्वमयोग्यत्वास्त्रियां नान्वेति । विभक्तिरेव वा (शक्त्या) पुंस्त्वस्य लक्षगया स्त्रीत्वस्यापि बोधिका । ब्राह्मणपदमेव वा शक्त्या ब्राह्मणत्वेन लक्षणया ब्राह्मणीत्वेन बोधकम् । एवं हंसावित्यादावपि । शिवौ नमस्कुर्यादित्यादौ शिवपदं लक्षणया शिवदुर्गान्यतरत्वेन किंवा शक्त्या शिवत्वेन लक्षणया दुर्गात्वेनैव बोधकम् । एवमन्यदप्यूह्यमिति ॥ इति श्रीमहामहोपाध्यायजयरामन्यायपञ्चाननभट्टाचार्य विरचितः समासवादः समाप्तः। .
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy