SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ८ ग्रन्थः ] समासवादः । ६५ नचैवमेकत्वे च एकत्वानि चैकत्वानि, गुणौ च क्रिये च गुणक्रियाः, गुणक्रियाश्च गुणक्रिये च गुणक्रिया इत्यादावेकशेषो गुणदीधितिकाव्यप्रकाशायुक्त विरुध्येत । इष्टत्वात् । हंसी च हंसश्च हंसावित्यादौ लिङ्गभेदे एकशेषस्त्वनुशासनबलादिति शाब्दिकाः । वस्तुतः 'सरूपाणामेकशेप एकविभक्तौ' इतिसूत्रमेकविभक्तौ वचनभेदे एकशेपविधायकतया सार्थकम् । नच सविभक्तिकस्य द्वन्द्वो निर्विभक्तिकस्य चैकशेप इति नेदं युक्तम् । द्वन्द्वविषयेऽप्रवृत्तौ द्वन्द्वापवादकत्वायोगात् । प्रातिपदिकोत्तरं विभक्तेरावश्यकत्वेन निर्विभक्तिकप्रातिपदिकद्वयासंभवात्र अन्यथा द्वन्द्वादिसमासोऽपि निर्विभक्तिकस्यैव स्यात् । पन्थानावित्यादावदन्तत्वाभावादेकशेपे समासत्वाभावेऽपि विभक्तिलोपस्तद्धितान्त इवेति दीधितिविद्योतने विस्तरः ॥ ५ ॥ अथाव्ययीभावः । नियमतः पूर्वपदार्थविशेष्यकबोधजनकसमासत्वमव्ययीभावत्वम् । अत्राह्मणोऽपिप्पलीत्यादिवारणाय नियमत इति । उपकुम्भं, निर्मक्षिकमित्यादौ कुम्भादिपदस्य कुम्भादिसंवन्धिनि लक्षणया कुम्भादिसंबन्धि समीपं, मक्षिकादिप्रतियोगिकोऽभाव इत्यादिधीः । चन्द्र इव मुखं, भूतलं न घट् इत्यादाविवाद्यर्थे चन्द्रादेर्भेदेनाप्यन्वयान्, अव्ययनिपातातिरिक्तप्रातिपदिकार्थ एव तादृशप्रातिपदिकार्थस्याभेदेनान्वयात् कुम्भादिपदवाच्यस्यैव सामीप्यादी भेदेनान्वय इति तु नव्याः । नचोन्मत्तगङ्गमित्यादावन्यपदार्थप्रधानेऽव्याप्तिः । अव्ययीभावानुशिष्टनपुंसकलिङ्गत्वार्थ संज्ञाविषये बहुव्रीहौ गौणाव्ययीभावत्वस्वीकारात् । संज्ञान्यविषये तु उन्मत्तगङ्गो देश इत्येव भवति । मध्येगङ्गमित्यादौ मध्यादिशब्दे दन्तत्वं निपात्यते । गङ्गासंबन्धि मध्यमित्याद्यन्वयधीः ॥ ६ ॥ " उपपदसमासः । कुम्भकारः क्षीरपायी खड्डाशायी इत्याद्युपपदसमासे कुम्भादिपदं लक्षया कुम्भविषयक - क्षीरकर्मक- खड्डाधिकरणकादिपरम् । नामार्थधात्वर्थयोभेदेनान्वयस्याव्युत्पन्नत्वात् ॥
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy