SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६४ वादार्थसंग्रहः [ २ भाग: स्वभावात् । अत एव चार्थे द्वन्द्व इत्यत्र चार्थः समुच्चयान्वाचयेतरो गृह्यते । अन्वाचयः समाहार इतरेतरयोगवा दिय इत्यर्थचतुष्टयस्य चार्थत्वात्। समाहारः साहित्रन्वय तरेतरयं वा त्र्यहेत्यविशिष्टः । तं यत्कर्तव्यं तद्नया सहेतो द्वित्रप पत्न्याः सहत्वं नतु साहित्यम् । पत्न्याः कथंचिदनुमतिद्वारैवोपयोगेन व्यापारे साम्याभावादिति । तन्न । चैत्रमैत्रौ स्थितिगतिमन्तावित्यादियथासंख्यस्थले एकक्रियान्वयित्वाभावेऽपि द्वन्द्वात् । नच तुल्यवत्सजातीयविजातीयविधेयान्वयित्वं सा - हित्यं वाच्यम् । तादृशसाहित्यलक्षणाया मानाभावात् । उक्तेषु क्रियाभेदविवक्षया प्रधानगुणभावविवक्षया विशेषणत्वविवक्षया च द्वन्द्वाकरणसंभवात् । एतेन विभिन्नदेशकालावच्छेदेन धवखदिरादीनां छिदायां धवखदिरौ छिन्धीत्याद्यप्रयोगात्, एकदेशकालावच्छेदेनैकक्रियान्वयित्वरूपसाहित्यावच्छिन्ने खदिरादिपदे लक्षणावैश्य कीत्यपास्तम् । तत्र कालभेदविवक्षया द्वन्द्वाकरणसंभवात् । विभिन्नदेशकालावच्छेदेन छिदायामपि धवखदिरौ छिन्नावित्यादौ द्वन्द्वाचेति दिक् । पर्याययोर्घटकलशावित्यादिद्वन्द्ववारणाय पदार्थतावच्छेदकभेदस्यैव द्वन्द्वनियामकत्वात् नीलघटयोरैक्यं, शिवरामयोरभेदः, इत्यादौ न द्वन्द्वानुपपत्तिः । नचैवं घंटच घटचेत्यादौ द्वन्द्वासंभवे तदपवादकसरूपैकशेषानुपपत्तिः द्वन्द्वविषय एव तत्प्रवृत्तेरिति वाच्यम् । घटावित्यादौ सरूपैकशेषानङ्गीकारादेकेनापि घटनानाथापनसंभवात्सकृदुचरित इति नियमाभावात् । अन्यथा पचन्तीत्यादावप्येकशेषापत्तेः । [ गङ्गायां घोषमत्स्यावित्याद्यनुरोधेन युगपदृत्तिद्वयविरोधस्याप्यनङ्गीकारात् ] एकेनापि हरिपदेन सिंहत्वविष्णुत्वाभ्यां बोधसंभवाद्धरी इत्यादावपि नैकशेषः । हरिहरी इत्यादिद्वन्द्वाभावस्तु पदासारूप्यस्यापि द्वन्द्वनियामकत्वात् । क्षणानुपपत्तः यत्वाभावादेवेत्यर्थः । २ तेन स्वर्गकामो यजेतेत्यादौ न द्विव च स्वार्थान्ववचनविरोध इति भावः । बोध्यते पाठः । ४ घटाकि } ५ ' हरी इत्यादावेव तद कृदुचरित इत्यादिनियमाभावन । एकेनापि हरिपदेन सिंहत्वविष्णुः । २ सम्म प्रसंभवात् नात्राप्येकशेषः । अन्यथा पचन्तीत्यादौ सर्वथैकशेषापत्तेः ' पाठ: ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy