________________
वादार्थसंग्रहः
[२ भागः यत्र विग्रहवाक्येऽन्यपदार्थः प्रधानः सोऽपि तथा । यथा दक्षिणस्याः पूर्वस्याश्च, दिशो यदन्तरालं सा दक्षिणपूर्वा दिक् । दक्षिणादिक्संबन्धिनी पूर्वदिक्संबन्धिनीत्यन्वयधीः । द्वौ वा त्रयो वा द्वित्रा इत्यादिकमपि बहुव्रीहिभेदः। वस्तुतो द्वित्रास्तिष्ठन्तीत्यादितो द्वौ वा त्रयो वा तिष्ठन्तीति न संशयः । शब्दस्य तत्रासामर्थ्यात् । द्वौ त्रयस्तिष्ठन्तीति च न निश्चयः, द्वयोः सत्त्वे भ्रमत्वापातादिति द्विव्यन्यतरे सन्तीति बोधः। एवं च द्विस्त्रिो (?) परिमाणमेषामिति विग्रहवाक्ये द्वित्वत्रित्वान्यतरविशिष्टे, द्वित्रा इति समासे च द्वित्वत्रित्वान्यतरसंख्याविशिष्टे लक्षणा। [अनोत्तरत्र च परिमाणशब्दः संख्याबोधको बोध्यः।]एवं च पञ्च षड्वा परिमाणमेषां पञ्चषा इत्यादावपीति । अन्यपदार्थप्राधान्यमिति दिक् ॥४॥
__ अथ द्वन्द्वः। इन्द्रव्यवहारविषयत्वं इन्द्रत्वम् । परस्परानन्वितसमस्यमाननिखिलपदार्थबोधकसमासत्वं वा तत्त्वम्। धवखदिरावित्यादौ खदिरादिपदस्य धवखदिरादिसाहित्याश्रये लक्षणा । धवखदिरादिपदशक्तिभ्यां वा परस्परानन्वितधवखदिरादिबोधकत्वाल्लक्षणसंगतिः । तथाहि-खदिरादिपदे धवखदिरादिसाहित्याश्रये लक्षणा । धवत्वेन खदिरत्वेन चोपस्थितौ धवखदिरादिवृत्तिद्वित्वबोधो न स्यात् । किंतु धवद्वयखदिरद्वयबोधः स्यात् । विभक्तेः प्रकृत्यर्थतावच्छेदकव्याप्यसंख्याबोधकत्वव्युत्पत्तेः । अन्यथा घटावित्यादितो घटपटादिवृत्तिद्वित्वबोधापत्तेः । साहित्यं चैकक्रियान्वयित्वम् । धवखदिरादिद्वयमात्रविशेष्यकबुद्धिविशेष्यत्वं वा । तद्व्याप्तं च न धवादिमात्रगतद्वित्वमित्यदोषः ।
न च तादृशसाहित्याश्रये द्वन्द्वस्य शक्तिरस्तु, अन्यलभ्ये शक्तेरयोगादिति मीसांसकाः । धवत्वखदिरत्वादिनैव बोधः । अन्वयानुपपत्त्यभावाल्लक्षणानुपपत्तेः । सुपा प्रकृत्यर्थतावच्छेदकत्वेन प्रकृत्यर्थतावच्छेदकस्य तिडा च स्वार्थान्वयित्वस्य वा व्याप्या संख्या बोध्यते इति धवखदिरा
१ यत्र समासघटकान्यपदार्थः सोऽपि तथेति पाठः । २ समासे च द्विन्यन्यतरत्वेन लक्षणा इति पाठः।