________________
८ ग्रन्थः ]
समासवादः ।
६१
चैत्रकर्तृकंदानकर्मधनसंबन्धी मैत्र इति बोधः । संबन्धः स्वकर्मकदानसंप्रदानत्वम् । एवमन्यत्रापि । एप समानाधिकरणबहुव्रीहिः ।
/
व्यधिकरणबहुव्रीहिस्तु चक्रपाणिरित्यादौ । चक्रं पाणौ यस्येति विग्रहवाक्याद्यत्संबन्धिपाणिवृत्ति चक्रमित्यन्वयधीः । समासात्तु चक्रयुक्तपाणिसंबन्धीति धीः ।
तद्गुणातद्गुणसंविज्ञानभेदादपि बहुव्रीहेद्वैविध्यम् । तत्राद्यो भूवादयो धातवः, चैत्रादीन्भोजयेत्यादौ । भूवाऽऽदिः प्रथमपठितो येषां ते, चैत्र आदि: प्रधानो येषामिति विग्रहवाक्याद्भवाभिन्नः प्रथमपठितो यत्संबन्धी, चैत्राभिन्नः प्रधानो यत्संबन्धीत्यादिधीः । समासात्तु भूवाभिन्नप्रथमपठितसंबन्धी, चैत्राभिन्नप्रधानसंबन्धीति धीः, संबन्धः स्वपाठप्राथम्यस्य स्वनिष्ठप्राधान्यस्य च अवधित्वम् । अत्र भूवाभिन्नप्रथमपठितसंबन्धित्वचैत्राभिन्नप्रधानसंबन्धित्वादिना आदिपदे लक्षणा, लक्ष्यतावच्छेदकस्यापि भूवादेर्विशेष्यान्वयिधात्वादिनाऽन्वयात्तद्गुणत्वम्, लक्षणाया अजहत्स्वा श्रत्वं च बोध्यम् ।
परे तु लम्बकर्णमानयेत्यादौ कर्णादेरप्रधानत्वेन भानस्यानुभवि - कत्वादस्तूक्ता रीतिः । भूवादय इत्यादौ तु गणपठितत्वनिमत्रितत्वादिनैव लक्षणा प्राधान्येनैव शक्यलक्ष्ययोर्विधेयान्वयानुभवात् । काकेभ्यो दधि रक्ष्यतामित्यादाविव । तद्गुणत्वं तु लम्बकर्णभूवादिसाधारणं लौक्षणिकपइतत्समभिव्याहृतपदान्यतरशक्ययोर्लक्ष्यान्वयिनाऽन्वयमात्रादेवेत्याहुः ।
अन्त्यः चित्रगुमानयेत्यादौ । अत्र चित्रगवस्वामित्वादिना गवादिपदे लक्षणायां गवादेरन्वयप्रवेशेऽपि न विशेष्यान्वयिनान्वयो लम्बकर्णमानयेत्यादावन्वय इत्यत्र शब्दस्वाभाव्यमेव तत्रमिति दिक् ।
क्वचित्प्रथमान्तविग्रहवाक्योऽपि बहुव्रीहिः । यथा सह पुत्रेणागतः सपुत्रकः, सह लोम्ना वर्तते सलोमकः । ' सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इत्यत्र न समासोऽनभिधानात् ।
एवं केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं केशाकेशि । दण्डैश्च दण्डैश्व प्रहृत्य प्रवृत्तं युद्धं दण्डादण्डीत्यादिरिति दिक् ।
१ शक्यलक्ष्ययोः विशेष्यान्वय्यन्वयमात्रा देवेत्याहुरिति पाठः ।