________________
६०
वादार्थसंग्रहः
[ २ भाग:
इत्यत्र तद्वति शुक्लादिमतीत्यर्थात् । गुणिनि शुक्लादिपद संकेतग्रहस्य गुणसंकेतग्रहप्रयोज्यतया वटादिपदस्य ग्रामादाविव शुक्लादिपदस्य गुणिनि शक्त्यभावो मत्सरपदस्य तु मिथोनिरपेक्षग्रहशक्तिग्रहकयोद्वेषतद्वतो - ईयोरपि शक्तत्वात् ' मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ' इति नामार्थमध्यपाठाच्च । तेन मत्सरपदस्यापि मत्सरशब्दार्थपरामर्शकतत्पदघटिततद्वत्पदेन शक्तिग्रहेऽपि न क्षतिः । मिश्रा अप्येवमिति चेन्न । श्रुतिसि - द्धसुखविशेषशक्तिकस्वःपदस्य निरूढलक्षणया नाकादिपर्यायत्ववन्मत्सरपदस्यापि निरूढलक्षणया नानार्थमध्यपठितत्वसंभवात् । कालादिपदवन्मत्सरपदस्य मत्सर संबन्धित्वेन लक्षणा निष्प्रत्यूहेत्यपि बोध्यम् ।
1
/
स चान्यपदार्थप्रधानः । विग्रहवाक्याद्यत्पदार्थे यत्प्रतियोगिक संबन्धाश्रयत्वं भासते तत्पदार्थवृत्तिसंबन्धप्रतियोगिनि तत्र लक्षणास्वीकागत् । तथाहि-चित्रा गौर्यस्येतिविग्रहवाक्याच्चित्राभिन्ना गौचैत्रादिस्वत्वाश्रय इत्यन्वयबोधाश्चित्रगुरित्यादिसमासे गोपदे चित्रगोवृत्तिस्वत्वप्र• तियोगिनि लक्षणा | चित्रपदं तात्पर्यग्राहकम् ।। गोपदे गोस्वामिनि ल क्षणा । एकदेशे गवि चित्राभेदान्वयो व्युत्पत्तिवैचित्र्यादित्यन्ये । गोप दादिना शक्त्या गवादि:, लक्षणया स्वाम्यादिर्बोध्यते । एकपदार्थयोश्चात्र परस्परमन्वयो व्युत्पत्तिवैचित्र्यादित्यपरे । चित्रापदं चित्रास्वामिपरम् | गोपदं गोस्वामिपरम् । चित्रास्वामी गोस्वामीति बोधः । चित्रात्वेन गोत्वेन चैकस्यैव भानम् । व्यक्तिवचनानामिति न्यायादिति नातिप्रसङ्गइति तु तादृशबोधस्यानानुभविकत्वात्, शोभनचित्रगुरित्यादित्रिपदबहुत्रीहावसंभवाञ्च न युक्तम् । अत्र हि चित्रापदस्य चित्रास्वामिनि लक्षणायां शोभनान्वयानुपपत्तिः । शोभनपदस्यापि शोभनस्वामिनि लक्षणायामत्यन्तमनुभवविरोध इति बोध्यम् ।
आरूढो वानरो यमित्यत्र आरुहेरूर्ध्वदेशावच्छिन्नसंयोनुकूला क्रिया, तस्याश्रयो, द्वितीयाया आधेयत्वमर्थः । तथाच वृक्षवृत्त्युपरिदेशावच्छिन्नसंयोगानुकूलक्रियाश्रयो वानर इत्यन्वयधीः । आरूढवानर इति समासे तु आरोहणकर्तृवानरसंबन्धी वृक्ष इत्यन्वयधीः । संबन्धः स्वकर्तृकारोहणकर्मत्वम् ।
चैत्रेण दत्तं धनं यस्मै इत्यत्र तु चैत्रकर्तृकयत्संप्रदानकदानकर्म धनमित्यन्वधीः । चैत्रदत्तधन इति समासे चैत्रपदस्य चैत्रकर्तृकपरत्वा