________________
८ ग्रन्थः ]
समासवादः। यत्तु यस्मानिर्धार्यते, यश्च निर्धारणहेतुः, यश्चैकदेशो निर्धार्यते एतत्रितयसंनिधावेव निर्धारणे षष्ठी तत्रैव समासनिषेध इति तन्न । तथा सति नग्शूरः क्षत्रिय इत्यस्याप्यनुपपत्तेः । (पुरुषपदस्य कृष्णत्वविशिष्टे रूढिसत्त्वे पुरुषोत्तम इत्यस्याप्यनापत्तेश्च ।)पुरुषोत्तम इत्यस्य योगेन स्वेतरपुरुपावृत्त्युत्तमत्वविशिष्टार्थकतयानतिप्रसङ्गात्लेक्लयौगिकत्वमेवेत्यन्ये । नच पुरुपश्चासावुत्तमश्चेति कर्मधाग्योऽस्तु तद्युत्तमपुरुषप्रयोगापत्तेः । जातिवाचकयोगे गुणक्रियावाचकस्य पूर्वोपात्तत्वनियमात् । नीलोत्पलमित्यादौ तथा व्यवस्थितेः । अन्यत्र त्वनियमः । यथा खञकुब्जः कुटजखञ्ज इत्यादौ ।
यत्तु पुरुषेषूत्तम इति सप्तमीसमास एवात्रेति तन्न । तथा सति सप्तमीसमासेन नग्क्षत्रियः शूरतम इत्यादिप्रयोगापत्तेः । न चेष्टापत्तिः । न निर्धारण इति निषेधवैयापत्तेः । निर्धारणे तादृशप्रयोगस्यासाधुत्वज्ञापकतयैव तत्सार्थकत्वात् ।
परे तु सप्तमीसमास एवायं स्वरभेदनियामकषष्ठीसमासनिषेधकत्वेन निषेधसाफल्यमित्याहुः । पञ्चमीसमासोऽत्रेत्यन्ये ।।
अथ बहुव्रीहिः। नियमतःसमासप्रयुक्तलाक्षणिकोत्तरपदकसमासो बहुव्रीहिः । अत्र संख्यावाचकपूर्वपदकान्यत्वे सतीति विशेषणं देयम् । तेन पञ्चफलीत्यादिद्विगौ नातिव्याप्तिः । गजपुरुष इत्यादिवारणायोत्तरेति । नच कण्ठेकाल इत्यत्राव्याप्तिः, कालपदे लक्षणायाः समासाप्रयुक्तत्वादिति वाच्यम् । कालरूपप्रकारेण लक्षणाया अतत्वेऽपि कालसंबन्धित्वेन लक्षणायास्तत्वात् । [इदमुपलक्षणम् । कण्ठावच्छेदेन कालरूपविशिष्ट प्रकृते कालपदस्य लाक्षणिकतया तादृशलक्षणाया: समासप्रयुक्तत्वमव्याहतमेवेति बोध्यम् ।] वस्तुतो न देयमेव समासप्रयुक्तेति व्यर्थत्वात् ।
नन्वेवमपि स्थिरमन्युरित्यादिवस्थिरमत्सर इत्यादिप्रयोगात्तत्राव्याप्तिः । नचात्र कर्मधारयः । स्वरभेदार्थमपि बहुव्रीहेः स्वीकारात् । नच मत्सरपदस्य शुक्लादिपदवगुणिनि लक्षणा । ' गुणिलिङ्गास्तु तद्वति'
१ 'जातिविशिष्टवाचकस्य गुणक्रियाविशिष्टवाचकयोगे जातिविशिष्टप्राधान्यनियमात्' इति पाठः।