________________
५८ वादार्थसंग्रहः
[२ भागः एतेन षष्ट्यास्तादात्म्यमेवार्थः । तथाच गोतादात्म्यवत्कृष्णत्वावच्छे. देन संपन्नक्षीराया गोतादात्म्यवत्संपन्नक्षीरात्वावच्छेदेन च कृष्णाया अन्वयाद्वां सास्नावती संपन्नक्षीरा पशूनां कृष्णा संपन्नीरत्याद्यप्रयोग इत्यपास्तम् । विधेयतावच्छेदकावच्छेदेनोद्देश्यान्वयस्यादृष्टचरत्वात् । _नचास्तु संपन्नक्षीरादेरेवोद्देश्यत्वम् । पूर्वोपात्तत्वाभावात् । क्षत्रियाणां कर्णः प्रचुरं ददातीत्यत्रासंभवाच । धर्मिण्याख्यातस्य लक्षणायाम युद्देश्यत्वेन बोधायोगात्। ददाति सुन्दरः इत्यतो दाता सुन्दर इत्यबोधात् । नच पचति गच्छतीत्यतः पक्ता गच्छाति बोधस्य वैयाकरणैः स्वीकारानैवं, प्रथमांतपदोपस्थाप्य एवान्वयस्य नैयायिकैः स्वीकारात् । तथैव काव्यादौ प्रयोगदर्शनात् । जलेषु स्नेहवत् शीतस्पर्शवदिति प्रयोगापत्तेश्च । नच जलतादात्म्यवत्स्नेहवत्त्वेन न व्याप्यता तर्हि क्षत्रियाणां कर्ण इत्यस्याप्यनापत्तेः । तस्मात्कर्णपदस्य कर्णतदन्यौं ददातीत्यस्य दानकृतितदभावावर्थ इति पूर्ववदेवान्वयबोधः ।
परे तु गोसमुदायादेकदेशस्य कृष्णायाः पृथक्करणं कृष्णेतरगोभेदानुमापकत्वं तस्त्वरूपयोग्यतानिर्धारणम्। तचेकृष्णेतरगोभेदव्याप्यत्वं कृष्णेतरगवावृत्तित्वपर्यवसितं षष्ट्यर्थः. संपन्नक्षीगत्वे एकदेशे व्युत्पत्तिवैचित्र्यादन्वेति । कृष्णेतरगोभेदव्याप्यत्वकृष्णेतरगोभिन्नत्वमेव वा पृथक्करणं संपन्नक्षीरायामवच्छेदकावच्छेदेनान्वेति । तेन पदार्थेषु द्रव्यं गुणकर्मात्यत्वविशिष्टसत्तावत् पदार्थेषु जातिमत्सत्तावदित्यादिकं सूपपादम् । षष्ठयास्तादात्म्यार्थकतयावच्छेदकावच्छेदेन भावान्वयस्यापि स्वीकारात् । घटेषु कृष्णा संपन्नक्षीरा गोषु कृष्णाशुक्लान्यतरा संपन्नक्षीरेत्यादेयुदासः । एतल्लाभायैव तत्तद्भिनवृत्तिधर्मवत्परं समुदायपदमित्याहुः ।
[षष्ठयास्तादात्म्यार्थकतया समुदायतादात्म्यवनिर्धार्यतावच्छेदकावच्छेदेन निर्धारणप्रयोजकरूपान्वयलाभाय, निर्धार्येतरसमुदायावृत्तिरूपनिझुर्येतरसमुदायभेदानुमितिस्वरूपयोग्यत्वरूपपृथक्करणरूपनिर्धारणस्य लिङ्गविधया इतरभेदानुमितिरूपनिर्धारणप्रयोजके पदाथैकदेशेऽन्वयलाभाय च निर्धार्यतदितरवृत्तिधर्मवत्परसमुदायपदोपादानम् । प्रागुक्तान्वयलाभयोः किं प्रयोजनमिति चेत्-पार्थिवानां स्नेहवत् शीतस्पर्शवजलानां स्नेहवच्छीतस्पर्शवदित्यनयोरयोग्यत्वसंपादनमेव । समुदायतादात्म्यवनिर्धार्यतावच्छेदकावच्छेदेन निर्धारणप्रयोजकरूपभावान्वयस्वीकारस्य तु गवां कृष्णाशुक्लान्यतरा संपन्नक्षीरेत्यस्यायोग्यत्वसंपादनमित्याहुः।]