________________
८ ग्रन्थः ]
समासवादः। शाब्दबोध इति चेदस्तु तथापि न्यायनिर्णीततात्पर्यकानां लक्षणाज्ञानाकल्पनलाघवस्य निष्प्रत्यूहत्वात् ।
इत्थं च लाघवात्कर्मधारयप्रवृत्तावपूर्वविद्याप्रयुक्तिकल्पनादिगौरवं फलमुखत्वान्न दोषाय । 'स्त्री शूद्रौ नाधीयाताम्' इत्यत्राधिपूर्वधातोनिषादीयतत्तदध्ययनेतराध्ययनपरत्वं न तु शूद्रपदस्य निषादेतरशूद्रपरत्वम् । निषादस्य वेदान्तराध्ययनप्रसङ्गादिति बोध्यम् ।
पुरुषोत्तम इत्यत्रापि षष्ठीसमासः । अत्र निर्धारणाभावान 'न निर्धारणे' इत्यनेन षष्ठीसमासनिषेधः । नच पुरुषसमुदायादेकदेशस्येश्वरस्योत्तमत्वेन पृथक्करणान्निर्धारणमस्त्येवेति वाच्यम् । समासवाक्यादन्यतो निर्धारणप्रयोजकरूपोपस्थितावेव समासनिषेधात् । नराणां क्षत्रियः शूरतमः इत्यर्थे नरक्षत्रियः शूरतम इत्यप्रयोगात् । नरशूर इति प्रयोगस्त्विष्ट एव । नच नाथः सृजतीत्यादौ तस्मै (नम) इत्यनेन तत्प्रयोजकरूपोपस्थितिः, विधेयस्यैव तत्प्रयोजकत्वात् । तत्पदार्थस्य तु विशेष्यत्वेनादोषात् ।
एतेन पुरुषोत्तमपदस्य श्रीकृष्णत्वविशिष्टे रूढतया तत्प्रयोजकरूपोपस्थितिरित्यपास्तम् । कृष्णत्वविशिष्टस्य योगार्थविशेष्यत्वात् । पुरुषाणामुत्तमः कृष्ण इत्यत्र तु कृष्णस्य विधेयत्वे निर्धारणोपगमात् । पुरुषेभ्य उत्तम इत्यतः स्वेतरपुरुषावृत्त्युत्तमत्वाश्रय इत्येवं योगादनतिप्रसङ्गे रूढिविरहाच । एतेन योगार्थस्यैव विशेष्यत्वेऽपि न क्षतिः।
अथ विधेयस्यैव निर्धारणप्रयोजकत्वे किं बीजमितिचेदाकर्णय । गवां कृष्णा संपन्नक्षारत्यादौ निर्धारणषष्ठयास्तादात्म्यं कृष्णापद-संपन्नक्षीरापदयोस्तत्तद्भिन्नं चार्थः। तथाच गोतादात्म्यवती कृष्णा संपन्नक्षीरा । गोतादात्म्यवती कृष्णान्या संपन्नक्षीरान्येति वाक्यार्थः । संपन्नक्षीगतदन्ययोश्च विधेयत्व एवोद्देश्यतावच्छेदकावच्छेदेनान्वयात् । पशूनां कृष्णा संपन्नक्षीरा, गवामियं संपन्नक्षीरेति न प्रयोग इति ।[संपन्नक्षीरासंपन्नक्षीरकृष्णगोद्वयघटितगोसमूहबोधकगोपदघटितस्य एतासां गवां कृष्णा संपन्नक्षीरोति वाक्यस्य योग्यत्ववारणायावच्छेदकावच्छेदेन भावान्वयस्वीकारो बोथ्यः ।
१ नाथ: सृजत्यवति यो जगदेकपुत्रप्रीत्या ततः परमनिर्वृतिमादधाति । तस्मै नमः सहजदीर्घकृपानुबन्धलब्धत्रितत्वतनवे पुरुषोत्तमाय ॥ इति लीलावतीकृतः ।