________________
वादार्थसंग्रहः
[ २ भागः
एतेनापिप्पल्यादावुत्तरपदे समासप्रयुक्तलक्षणासत्त्वात् , अवादयः क्रुष्टाद्यर्थे तृतीयया, पर्यादयो ग्लानाद्यथें चतुर्थ्या, प्रादयो गताद्यर्थे प्रथमया इत्याद्यनुशासनाद् , अवक्रुष्ट्र कोकिलया अवकोकिलं वनं, परिग्लानोऽध्ययनाय पर्यध्ययनः, प्रगत आचार्यः प्राचार्य इत्यादौ च लुप्तद्वितीयादिविभक्तिकपूर्वपदकत्वाभावादव्याप्तिरित्यपास्तम् । एषु तत्पुरुषत्वं गौणमित्यन्ये ।
राजपुरुष इत्यादौ, ग्रामगत इत्यादौ च राजादिपदे राजसंबन्धिनि प्रामादिपदे च प्रामादिकर्मकादौ लक्षणा । राजसंबन्ध्यभिन्नः पुरुषः, ग्रामकर्मकाभिन्नगमनाश्रय इति चान्वयधीः । शोभनराजपुरुष इत्यादौ च राजपदे शोभनराजसंबन्धिनि लक्षणा । शोभनपदं तात्पर्यग्राहकं नातो राजपदस्य राजसंबन्धिनि लक्षणायामेकदेशे राज्ञि शोभनान्वयानुपपत्तिः । अत्रैकदेशेऽप्यभेदान्वयश्चित्रगुरित्यादाविव व्युत्पत्तिवैचित्र्यादित्यन्ये ।
एतेन राजा पुरुषो ग्रामो गमनमित्यादावन्वयाबोधात् , नामार्थयो - मार्थधात्वर्थयोश्च भेदेनान्वयस्याव्युत्पन्नतया राजादेः स्वत्वादिसंबन्धेन, पुरुषादौ ग्रामादेश्च कर्मत्वादिसंबन्धेन गमनादावन्वयासंभवाद्राजपुरुष इत्यादिसमुदायस्य राजसंबन्धवत्पुरुषादौ शक्तिः । इत्थं च राज्ञः पुरुष इत्यादिविग्रहसमानार्थतापीत्यपास्तम् ।
किंचैवं निषादस्थपति याजयेदित्यत्र निषादानां स्थपतिरिति न षष्ठीसमासो लक्षणासत्त्वात्किंतु कर्मधारयस्तत्र लक्षणाविरहादिति सिद्धान्तो व्याहन्येत । तव मते षष्ठीसमासेऽपि लक्षणाविरहात्।
अथ शक्तितज्ज्ञानहेतुतयोरिव लक्षणातज्ज्ञानहेतुतयोरपि क्लृप्तत्वात्षष्ठीसमास एव युक्तः । तथा सति निषादानां स्थपतेर्लब्धविद्यत्रैवर्णिकस्य याजनसंभवे निषादस्य नापूर्वविद्याप्रयुक्तिकल्पनै न वा स्त्रीशूद्रौ नाधीयातामिति निषेधसंकोचः । लाघवाभावेऽपि वेदस्य मुख्यत्वसंभवे न गौणत्वमितिवत् , वेदे कर्मधारयसंभवे नान्यसमास इति षष्ठीसमासे शक्तावपि न सिद्धान्तव्याघात इति चेन्न । वैदिकशाब्दबोधस्य शक्तिज्ञानमूलकत्वे लाघवस्य सिद्धान्तबीजत्वात् । शक्यसंबन्धज्ञानस्य विना शक्तिज्ञानमसंभवात्तन्मूलकत्वे गौरवात् । केषांचिच्छक्यसंबन्धज्ञानादपि १ मितिचेत् ; मितिन्नेति पाटः ।