________________
८ ग्रन्थः ]
समासबादः।
अपात्रादिरदन्तो यः स्यादन्तो वा द्विगुः स्त्रियाम् ।
अन्नन्तश्च समाहारो नदादिषु निगद्यते ॥ १॥ इति । पात्रादेस्तु नपुंसकत्वमेव । द्विपात्रं, त्रिपात्रं, त्रिभुवनं, चतुर्युगमित्यादि.। रुयादन्तस्यान्नन्तस्य द्विगोवैकल्पिकं नदादित्वम् । यथापञ्चखवी पञ्चखलं, पञ्चतक्षी पञ्चतक्षमित्यादि । अत्र समाहारः समासस्य शत्तया, फलादिपदस्यैव वा फलादिसमाहारो लक्षणयार्थः । एकदेशेऽपि फलादौ पञ्चादेरभेदान्वयो व्युत्पत्तिवैचित्र्यात् । समाहारश्च बुद्धिविशेषविषयत्वम् । तथाच पञ्चाभिन्नफलादिसमाहारः, समाहारविशिष्टाः पञ्चाभिन्नफलादय इति वाऽन्वयधीरित्यग्रे विवेचयिष्यते।
तत्पुरुषः । समासप्रयुक्तलक्षणाशून्योत्तरनामपदकत्वे सति लुप्तद्वितीयादिविभक्तिकपूर्वनामपदकसमासत्वं तत्पुरुषत्वम् । पञ्चफलीत्यादिवारणाय सत्यन्तम् । नीलोत्पलादिवारणाय लुप्तेत्यादि न चानयोस्तत्पुरुषत्वमिष्टं मुख्यतत्पुरुपत्वस्याभावात् । तत्पुरुषसंज्ञाविधानं तु अब्राह्मण इत्यादौ नकारलोपाद्यथै गौणम् । अब्राह्मणमित्याद्यव्ययीभाववारणाय पूर्वेति। न च न विवादोऽविवाद इत्यत्राव्याप्तिः । विरोध्यर्थकनञाऽसुर इत्यादाविवाविवादोऽनुपपत्तिरित्यादौ कर्मधारयस्वीकारेण मुख्यतपुरुपानङ्गीकारात् । न च नमोऽव्ययत्वेन तेनाव्ययीभाव एव युक्तः । यथा निरो गताद्यर्थे इत्यनुशासनान्निरो निर्गमनबोधकत्व एव निःकौशाम्बिरित्यादौ तत्पुरुषः, अत्यन्ताभावतद्वतोर्बोधकत्वे तु निष्कौशाम्बि निक्षिकं निर्विनमित्यादावव्ययीभावः, तथा नञोऽत्यन्ताभावतद्वतोर्बोधकत्वे एवाव्ययीभावः' विवादस्याभावोऽविवादमित्यत्र अघटं भूतलमिति नञ्दीधित्युक्तेश्च । अत्यन्ताभावतद्वदन्यबोधकत्वे तु कर्मधारयोऽब्राह्मणोऽसुरोऽविवाद इत्यादावित्यदोषात् ।
अत्यन्ताभावाद्यर्थकनापि विकल्पेन कर्मधारय इत्यन्ये । वस्तुतस्तु *तत्पुरुषपरिभाषाविषयत्वं तत्पुरुषत्वं* बोध्यम् ।
१ अब्राह्मण इत्यादिवारणाय पूर्वेति; सुरसं दधि पइयेतिवारणाय पूर्वेतीति च पाटः । २ मित्यत्र नदीधित्युक्ते च; दीधित्युक्तं च इति पाठौ ।