SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५४ वादार्थसंग्रहः द्विगुः । संज्ञाविषयान्यत्वे सति संख्यावाचकपूर्वपदकतुत्याधिकरणसमासो द्विगुः । . [ - २ भागः सत्यन्तोपादानात्पञ्चाम्राः, पञ्चकन्या इत्यादिकर्मधारयन्युदासः । पञ्चानामाम्राणां समाहार इत्यर्थे तु पञ्चान्रीति द्विगुरेव । तथाच पञ्चकन्यमित्यपि । नीलोत्पलमित्यादेश्व व्युदासाय सङ्घयेत्यादि । पञ्चभर्तेत्यादिव्युदासाय तुल्याधिकरणेति । विग्रहे तुल्याधिकरणत्वाभावातद्व्युदासः । अयं च कर्मधारयबाधकोऽपत्येऽणादिभिन्नस्वरादितद्धितार्थेऽभिधेये, तद्धितसामान्यस्यैव चार्थे विषये, परत उत्तरपदे, समाहारे चाभिधेये विधीयते । तद्धितार्थेऽभिधेये यथा - पञ्चसु कपालेषु संस्कृत: पञ्चकपाल इति, अत्र समासस्य संस्कृतोऽर्थः । कपालपदस्यैव वा कपालसंस्कृतोऽर्थः । तत्र व्युत्पत्तिवैचित्र्यादभेदेनैकदेशे कपाले पञ्चाभेदान्वयात्पञ्चाभिन्नकपालसंस्कृत इति शाब्दधीः । तद्धितार्थस्य समासादिनाऽभिधानादुक्तार्थत्वान्न तद्धितप्रत्ययः । 6 तद्धितार्थे विषये यथा - पञ्चसु ब्राह्मणेषु साधुः पञ्चब्राह्मण्यः, पञ्चानां गर्गाणां भूतपूर्वो गौः पञ्चगर्गरूप्यः, पञ्चानां नापितानामपत्यं पाञ्चनापितिः, द्वाभ्यां नौभ्या क्रीतो द्विनौरित्यादि । अत्र समासेन तद्धितार्थानभिधानात्तद्धितप्रत्ययः तत्र साधुः ' इति यः । अपत्येऽर्थे इञ् । पञ्चब्राह्मणनिरूपितसाधुत्ववान्, पञ्चगर्गातीतस्वत्ववान्, पञ्चनापितापत्यम्, द्विनौक्रीत इत्यन्वयधीः । [ द्विनौरित्यत्र ठनो लोपविधानाल्लुप्ततद्धितस्मरणादेव क्रीतार्थबोध: । ] परत उत्तरपदे यथा - पञ्चगवधनमित्यादयः । अत्र पञ्च गावो धनं यस्येतिविग्रहेऽन्तर्वर्तिद्विगुमाश्रित्य राजादित्वादन्प्रत्ययः । समुदायस्तु बहुत्रीहिः । पञ्चगवाभिन्नधनसंबन्धीत्यन्वयधीः । समाहारे यथा - पञ्चाना गवां समाहारः पञ्चगवं, चतुर्णां पथा समाहारश्चतुष्पथम् पश्वानां फलाना समाहारः पञ्चफली । अत्र पात्रादिभिन्नादन्तद्विगुत्वादीप्रत्ययः । तदुक्तमू }
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy