________________
८ अन्यः ]
समासवादः।
घटान्य इत्यादौ पदार्थैकदेशेऽप्यभेदान्वयस्य व्युत्पन्नत्वात् । अस्तु वा ब्राह्मणपदस्य सादृश्यादिसंबन्धेन ब्राह्मणसंबन्ध्यर्थः । ब्राह्मणसंबन्ध्यभिन्नसदशादिर्वाक्यार्थः । एतेनैकदेशेऽभेदबोधकत्वेन तुल्याधिकग्णत्वे चित्रगुरित्यादी गोपदलक्ष्यगोस्वामिनः एकदेशे गवि चित्राभेदान्वय इति मते तत्रापि तुल्याधिकग्णत्वं स्यादित्यपास्तम् । __ शाब्दिकान्तु अब्राह्मण इत्यादेरारोपितो ब्राह्मण इत्यादिग्थों ब्राह्मणभिन्नादिस्तु फलितार्थः । सर्वनामकार्यायोत्तरपदार्थप्राधान्यादन्यथातिसर्व इत्यादाविवातस्मिन्नित्यादौ सर्वनामकार्य न स्यादित्याहुः । [ब्राह्मणभिन्नादे: शाब्दबोधविषयत्वे पूर्वपदार्थप्राधान्यवदतस्मिन्नस इत्यादावपि पूर्वपदार्थस्यैव प्राधान्यापत्त्या सर्वनामकार्य न स्यादित्यर्थः । नचैवमतिसर्व इत्यादावपि उत्तरपदार्थप्राधान्ये सर्वनामकार्य स्यादितिवाच्यम् । तत्रानन्यगत्या पूर्वपदार्थप्राधान्यादिति ।]
एतन्मते ब्राह्मणपदस्य ब्राह्मणारोपविषये लक्षणा । नञ्पदं तात्पर्यग्राहकमिति तु युक्तम् । न च व्याघ्रादिसमासे पुरुषव्याघ्र इत्यादौ, अब्राह्मण इत्यादौ शस्त्रीव श्यामा शस्त्रीश्यामा, घनश्याम इत्यादौ च समासप्रयुक्तलक्षणासत्त्वात्कर्मधाग्यलक्षणाव्याप्रिः । समासप्रयुक्तलअणाव्याप्यसमासविभाजकोपाधिशून्यत्वस्य वाच्यत्वात् । कण्ठेकाल इत्यादौ निर्मक्षिकमित्यादौ च लक्षणाविरहेऽपि न क्षतिः । बहुत्रीह्यव्ययीभावयोस्तुल्याधिकरणत्वाभावादेवानतिप्रसङ्गात् । यदि चातिसर्व इत्यादी तत्पुरुषेऽपि न लक्षणा तदा *कर्मधारयव्यवहारविषयत्वमेव* लक्षणं बोध्यम् ।
परे तु*विग्रहे समासे च ययोः पदयोस्तुल्याधिकरणत्वंतदुभयपदघटितसमासत्वं कर्मधारयत्वम्* । राज्ञः पुरुष इत्यादिविग्रहे तुल्याधिकरणपदद्वयविरहानातिव्याप्तिः। *विग्रहसमासयोरन्यतरत्र ययोरतुल्याधिकरणत्वं तदुभयभिन्नपदद्वयघटितसमासत्वं वा तत्त्वम् । एतेन कृष्णसर्प इत्यादौ विग्रहासत्त्वेऽपि न क्षतिः । नच शस्त्रीश्यामेत्यादावव्याप्तिः । स्वपदविग्रहस्यैवात्र विग्रहत्वेन निवेशादिति । शस्त्री चासौ श्यामा चेत्येवात्र विग्रहवाक्यमित्यन्य इत्याहुः ॥ १ ॥