________________
५२
वादार्थसंग्रहः
[ २ भाग:
म्बुजं भवतु वो विजयाय मञ्जुमञ्जीरशिञ्जितमनोहरमम्बिकायाः' इत्यादौ पूर्वपदार्थप्रधानव्यान्नादिसमासेनोपमा, मञ्जीरशिञ्जितस्य पाद एवं संभवात् 'यस्यानिशं दिविषदश्चरणारविन्दमुत्तंसयन्त्यमितभक्तिभरावनम्राः’ इत्यादावुत्तरपदार्थप्रधानमयूरव्यंसकादिसमासेन रूपकमेव, उत्तंसनस्यारविन्द एव संभवादिति व्यवस्था सर्वैरङ्गीकृता नसंभवति, तथासत्यरविन्दादिपदार्थस्यारुण्यादिगुणविशिष्टस्य प्राधान्यायोगेन मयूरव्यंसकादिसमासेऽपि व्याघ्रादिसमास इव पूर्वपदार्थचरणस्यैव प्राधान्यापत्त्योत्तंसनानुगुण्यविरह तौल्यापत्तेः । गुणजातिविशिष्टयोर्जातिविशिष्टप्राधान्यस्य नीलोत्पलादौ व्यवस्थितेः । उत्तरपदार्थप्राधान्येऽपि चरणवृत्त्यारुव्यादिगुणस्योत्तंसनानुगुणत्वाभावाच्चोत्तंसनपदस्यापि सोत्कण्ठश्रवणे साध्यवसानलक्षणास्वीकारात्सुतरां तथेति चेत् । भैवम् । इन्द्रादिपदस्येन्द्वादिवृत्तिधर्मवत्त्वेन तत्तद्धर्भवति लक्षणया पौनरुक्त्यायोगात् । धर्मत्वेनोक्तधर्मस्यैव लाभः । अन्यथा चन्द्रवन्मुखमाह्लादकमित्यादावपि पौनरुक्त्यापत्तेः ।
किंचेत्यादिकमपि मन्दम् | योगरूढिभ्यामिव लक्षणाव्यञ्जनाभ्यां चरणारविन्दमित्यादितश्चरणाभिन्नारविन्दवृत्तिधर्मवद्रविन्दमित्याकारकबोध एव वाक्यपर्यवसानात् । [' कस्त्वं भोः कथयामि ' इत्यादौ ' मध्नामि कौरवशतम् ' इत्यादौ च व्यङ्गचार्थमादायैव शाब्दबोधविश्रामात् । ]
व्यञ्जनानङ्गीकर्तृन्यायादिमते तु जातिविशिष्टप्राधान्यानियमात्पादाभिन्नमम्बुजसदृशं चरणाभिन्नमरविन्दवृत्तिधर्मव[त्पादाभिन्नमम्बुजवृत्तिधव]दित्युभयत्र बोधः । उत्तंसनपद्स्य सोत्कण्ठश्रवणे लक्षणया लक्ष्यार्थस्य शाब्दमुख्यार्थाभेदाध्यवसायविरहस्य च स्वीकारान्न दोषः । अभेदाध्यवसायस्तु मानस एवेति तत्तदलंकारव्यपदेशः ।
उच्छृङ्खलास्तु मुखचन्द्र इत्यादौ चन्द्रादिपदे न लक्षणा । रसविशेषवासनाजन्यबोधे बाधधियो विरोधित्वाभावात् शाब्दधीस्तुल्याधिकरणत्वं चाभेदबोधकत्वाद्वाक्याप्रामाण्यं चेष्टमित्याहुः ।
अत्राह्मणोऽसुरोऽघट इत्यत्र नञः क्रमेण सदृशो विरोधी भिन्नश्च सर्वत्र ब्राह्मणादिपदस्य ब्राह्मणादिप्रतियोगिकोऽर्थः । ब्राह्मणादिप्रतियोगिकाभिन्नसादृश्यादेराश्रयो वाक्यार्थः । ब्राह्मणसदृशः, सुरविरोधी,
१ अरविन्दत्वादिजातेरिवारुण्यादीति पाठः । २ लक्ष्यार्थे इति पाठः ।