SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ८ ग्रन्थः ] समासवादः। चित्रागौर्यस्येति विग्रहेऽधिकस्य यस्येतिभागस्य निवेशेऽपि स्वघटकयावत्पदघटितत्वस्य सत्त्वाद्वहुव्रीहर्नित्यसमासत्वव्युदासः । कचिदसमासो यथा रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः, उत्पलं नीलमित्यादाविति बोध्यम् ।। छिन्नप्ररूढो वृक्ष इत्यत्र छिदेगरम्भकसंयोगविरोधिविभागजनकक्रिया, क्तप्रत्ययस्य फलाश्रयो, वृक्षपदम्य तदवयवोऽर्थः । विभागस्योभयकर्मजत्वेऽवयवद्वयस्यैव परसमवेतक्रियाजन्यफलशालित्वात्कर्मत्वम् । अन्यतरकर्मजत्वे निश्चलावयवस्यैकस्यैवेति बोध्यम् । तादृशक्रियानुकूलदानादिव्यापारश्छिदेरर्थः । धात्वर्थतावच्छेदकक्रियाशालितया च सक्रियावयवस्यैव कर्मत्वमित्यन्ये । प्रोपहितरुहेवृक्षाद्युत्पत्तिः । तस्याश्रयोऽर्थः । तथाच तादृशक्रियाजन्यफलाश्रयाभिन्नो वृक्षाात्पत्तिमान वृक्षाद्यवयव इति वाक्यार्थः । कृष्टमदीकृत इत्यत्र कृपविलेखनं मृदवयवविभागहेतुक्रियाजनकलाङ्गलादिव्यापारोऽर्थः । 'कृष विलेखने' इत्यनुशासनात् । क्तप्रत्ययस्य फलाश्रयः। मदी काष्ठविशेषनिर्मिता मदितिख्याता । तया कृतस्तद्व्यापाराधीनसंयोगाश्रयः । कृञो व्यापारार्थत्वात् । तथाच तादृशलालादिव्यापारजन्यफलाश्रयाभिन्नो मदीव्यापाराधीनसंयोगाश्रयः इति वाक्यार्थः । अत्र आदौ छिन्नः पश्चात्प्ररूढ इत्यादिपाठक्रमो विवक्षितः । 'आदिकर्मणि क्तः, इत्यनुशासनात् । तेन प्ररोहोत्तरं छेदनमात्रे न तथा प्रयोग इति बोध्यम् । मुखचन्द्र इत्यत्र चन्द्रपदस्यालादकत्वादिधर्मवति सारोपलक्षणया तुल्याधिकरणत्वात्कर्मधारयः । नन्विदमयुक्तम् । 'आह्लादयति मुखेन्दुर्जगदिदमम(तु)लद्युतिः सुतनोः' इत्यादाविन्दुपदेनाह्लादकत्वाद्युक्तौ पौनरुक्त्यापत्तेः । नच नात्र सारोपलक्षणया रूपकं, मयूरव्यंसकादिसमासोपगमे हि तथा, प्रकृते तु इन्दुरिव मुखमित्युपमितसमासोऽस्त्विति वाच्यम् । ' उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्यनुशासनात्सामान्यधर्माप्रयोग एव तत्समासात् ।। आलंकारिकैरपि सामान्यधर्मप्रयोगे सत्युपमाबाधकसत्त्वात्सारोपलक्षणाप्रयुक्तो रूपकालंकार इष्यते । यतः उपमितसमासे धर्मवाचकोभयलुप्रोपमैव हि तैरुदाहृता न तु वाचकमात्रलुप्तोपमा। किंचैवम् 'पादा १ अत्र क्तस्येति पाठः। २ विलक्षणमृदवयवति पाठः ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy