SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वादार्थसंग्रहः ५० [ २ भाग: समासत्वानङ्गीकारः । परंतु तादृशसमुदायेऽतिप्रसङ्गदानं पूर्वलक्षणेऽपि समानम् । विभक्तिशून्यपूर्वपदकेत्यत्र पदे स्वार्थतात्पर्यकत्वनिवेशेन तद्वारणं चात्रापि विभक्तिमन्नामसमुदायेत्यत्र विभक्तिमन्नाग्निस्वार्थबोधतात्पर्यकत्वनिवेशेन तुल्यम् । तस्माल्लघुत्वात्स्वार्थबोधतात्पर्यकत्वघटितं द्वितीयमेव लक्षणमुपादेयमिति । यत्तु विभत्तयन्तत्वज्ञाने समासत्वज्ञानं समासत्वज्ञाने च विभक्त्यन्तत्वज्ञानमित्यन्योन्याश्रयाद्विभक्त्यन्तत्वघटित समासलक्षणं न. साध्विति तन्न । विभक्त्यन्तत्वघटितसमासत्वज्ञाने विभक्त्यन्तज्ञानापेक्षायामपि विभक्त्यन्तत्वज्ञाने तद्घटितसमासत्वज्ञानानपेक्षणात् । तत्र संकेतविशेषसंबन्धेन समासेतिसंज्ञावत्त्वरूपसमासत्वज्ञानस्यैवापेक्षितत्वात् । तत्र समासाः षट् । कर्मधारयद्विगुतत्पुरुपबहुव्रीहिद्वन्द्वाव्ययीभावभेदात् । कर्मधारयः । कर्मधारयत्वं च समास प्रयुक्तलक्षणाशून्यतुल्याधिकरणनामद्वयघटितसामसत्वम् । नीलोत्पलमित्यादौ नीलपदे निरूढलक्षणायाः समासाप्रयुक्ततया नीलोत्पलपदयोस्तुल्याधिकरणत्वाच लक्षणसंगतिः । चित्रगू राजपुरुष इत्यादौ समासप्रयुक्तलक्षणासत्त्वात्, नीलघटयोरभेदः कण्ठेकाल इत्यादौ तुल्याधिकरणपद्द्द्वयाभावान्नातिव्याप्तिः । तुल्याधिकरणत्वस्याभेदसंसर्गकबोधतात्पर्यकत्वस्य नीलघटयोरभेद इत्यादावभावान्नीलस्याभेदेन घेटान्वितत्वे षष्ठ्यर्थेऽन्वयासंभवाद्भेद् इत्यस्य निराकाङ्क्षत्त्वापाताश्च । मस्ति चेदं नीलोत्पलं कृष्णसर्प इत्यादौ नीलादिपदस्य नीलवदादिलाक्षणिकतयाऽभेदान्वयबोधात् । अत्र वाक्यमेव समासतां प्राप्नोतीति मते नीलोत्पलमित्यादयो विकल्पसमासा: नीलमुत्पलमित्यादिविग्रहसत्त्वात् । उपकुम्भं कुम्भकार: कृष्णसर्पः इत्यादयो नित्यसमासाः । अविग्रहोऽस्वपदविग्रहो वा नित्यसमास इत्यभियुक्तस्मरणात् । अस्पदविग्रह इत्यस्य स्वघटकयावत्पदघटितविग्रहकान्य इत्यर्थः । १ घटान्वितस्येति पाठः । २ अभेदबोधादिति पाठः ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy