________________
८ ग्रन्थः ]
समासवादः।
४९
अत एव वाक्यं न समासता प्राप्नोति । नित्य एव समासः । कण्ठेकाल, उरसिलोमेत्यादिकमपि समासप्रकृत्यन्तरमेवेत्येके । तन्न । कण्ठेकाल उरसिलोमेत्यादेः प्रकृत्यन्तरत्वं समुदाये शक्तिमङ्गीकृत्य न वा । आये गौरवम् । नामसमुदायत्वं च व्याहन्येत । अत एव नान्त्यः प्रातिपदिकत्वस्यार्थबोचकत्वस्य चानुपपत्तेः । एकारान्तकण्ठेइतिशब्दस्य काप्यनुपपत्तेः । तस्माद्वाक्यमेव कचिद्विकल्पेन कचिन्नित्यमेव समासतां प्राप्नोतीति सविभक्तिकनामसमुदायस्यैव समासत्वम् । नचैवं देवानित्यादिसमुदायस्यापि वारणायार्थवदादिसूत्रेऽप्रत्यय इत्यस्य प्रत्ययतदन्तान्यपरत्वेऽपि प्रत्ययपदस्य विभक्तिपरतया कृत्तद्धितप्रत्ययान्तयोरस्तु संग्रहः । नीलोत्पलादिसमासस्य लुप्रविभक्त्यन्तस्य प्रातिपदिकत्वं कृदादिसूत्रेणैव विधेयमिति तत्सूत्रम्वार्थवदादिमूत्रप्रपञ्चत्वं मिश्रायुक्तं विरुध्येत । अप्रत्यय इत्यस्य कृत्तद्धितसमासेतरप्रत्ययान्तभिन्नपरत्वज्ञापकतया कृदादिसूत्रप्रपञ्चत्वसंभवादित्यन्ये । एतन्मते च प्रागुक्तलक्षणमसंभवाति चेन्न । आनुशामनिकलोपाभावविशिष्टान्यत्वम्य नियतानुसंधानविषयत्वस्य च विभक्तिविशेषणत्वात् । कण्ठेकाल इत्यादी विभक्तिर्नानुशासनिकलोपाभावविशिष्टान्या, नीलोत्पलमित्यादौ च विभक्तिर्न नियतानुसंधानविषयः साधुत्वमात्रार्थत्वात् , इत्यदोपः । परेतु अलुक्समासातिरिक्तसमासे विभक्तेरसत्त्वादन्त्यविशेषणं न देयमित्याहुः ।
*संकेतविशेषसंवन्धन समासपदवत्वमेव समासत्वम् इत्यपरे ।
*विभत्तयन्तविभक्तिमन्नामसमुदायत्वम्* इति तु यथानीलदण्डादित्याद्यनुकरणसाधारणम् । नच नीलदण्डादित्यत्र नीलदण्डादिपदे तत्पदसमभिव्याहृते लक्षणा । एकदेशे दण्डादित्यादिपदेऽभेदान्वयात्कर्मधारयत्वमिष्टं विभक्तेरप्यनुकरणे नामत्वादिति वाच्यम् । प्रकृतिवदनुकरणमित्यनुशासनेन निरर्थकसमुदायोत्तरमपि विभक्तिसंभवे नीलदण्डादितिपदे तुल्याधिकरणत्वाभावेन कर्मधारयत्वाभावाल्लक्षणयैकदेशेऽभेदान्वयानौचित्यात् । चरमपदे तत्तदानुपूर्वीविशिष्टे लक्षणाया (अ)युक्तत्वात् । विवरणऽप्येवम् । तस्याप्यनुकरणविशेषत्वादित्यास्ता विस्तरः ।
अत्रेदं तत्त्वम् । यथा नीलदण्डादित्याद्यनुकरणे विशेषलक्षणायोगात् १ नुपलब्धेरिति पाठः । २ व्यस्तवाक्यवारणाय विभक्त्यन्त मिति । सरूपैकशेषवारणाय विभक्तिमदिति। ३ तत्तत्सम । ४ णेनाभिन्नत्वादिति ।