________________
श्रीजयरामभट्टाचार्यप्रणीतः
समासवादः ८
न्यायपञ्चाननः श्रीमाञ्जयरामः सतां मुदे । समासतत्त्वमाचष्टे विवुधानां सुधोपमम् ॥ १॥
समासत्ववादः। तत्र समासत्वं
विभक्तिशून्यपूर्वपदकनामसमुदायत्वम् । अत्र विभक्तिशून्यपूर्वपदकत्वं विभक्तिशून्यपूर्वपदयटितशाब्दबोधप्रयोजकानुपूर्वीमत्त्वम् । तेन न घट इत्यादौ नातिव्याप्तिः । घटो नेत्याद्यानुपूर्वीज्ञानत्वेनैव शाब्दबोधहेतुत्वात् । अघट इत्यादौ समासतापन्नस्य नञस्तु पूर्ववर्तित्वेनैव शाब्दबोधप्रयोजकत्वं समासानुशासनबलाढुटः अ इत्यादेरबोधकत्वाञ्च । 'श्रुतेरिवार्थ स्मृतिरन्वगच्छन् , इत्यादी श्रतेरथ स्मृतिरिवेति योजनयैव बोधः । तेन 'इवार्थम् ' इत्यादौ नातिव्याप्तिः । 'आराद्ब्रह्मविदामशेषविषयब्रह्मैक्यमुद्दीपयन्' इत्यादौ ब्रह्मैक्यमुद्दीपयन्नारादुज्जम्भते इति योजनयैव बोधस्तेन 'आराद्ब्रह्म' इत्यत्र नातिव्याप्तिः। _ 'दधि मधुरमस्ति' इत्यादौ भावनाद्यन्वये प्रथमाद्यन्तपदज्ञानजन्योपस्थितेः प्रयोजकत्वेन लुप्तविभक्तेः सत्त्वाददोषः । नीलोत्पलंमित्यादिसमासे तु विभक्तिर्व्यर्था । नहि राजपुरुष इत्यादौ लुप्तषष्ठयादिस्मृत्या शाब्दबोधः । षष्ठीलोपमजानतोऽपि बोधात् । न वा बहुव्रीहौ यत्पदगर्भविग्रहवाक्यस्मृत्या शाब्दबोधः, तत्पदाभावात् । किंचैवं तत्पुरुषादित: कर्मधारयस्य ज्यायस्त्वं न स्यात् । लुप्तषष्ठयादिस्मत्या स्मरणाङ्गीकारे लक्षणाविरहात् । समासादौ विभक्तिलोपाभिधानं तु विभक्तिं विनापि तत्र प्रातिपदिकस्य साधुत्वाय । नीलोत्पलधवखदिरादिसमुदायोत्तरं विभक्तिस्त्वर्थवदादिसूत्रेऽर्थवत्त्वस्य स्वघटकपदवृत्त्यार्थबोधकत्वरूपत्वात् ।
१ समासतः । २ नीलोत्पलेत्यादि ।