________________
७ ग्रन्थः ]
कारकवादार्थः। तापन्नस्य दोहनस्य। इत्थं च तादृशगोदोहनसमानकालीनाततिागमनानुकूलकृतिमानिति धीः ।
दुग्धास्वागत इत्यादौ तु न तथान्वयः । आगमनकाले दोहनस्यातीततया दोहनकालीनत्वस्यागमने बाधात् । किंतु वर्तमानध्वंसप्रतियोगिदोहनकर्मतापन्नासु गोष्विति दुग्धासु गोष्वित्यन्तार्थः । तादृशगोदोहनविशेषणप्रतियोगित्वविशेषणध्वंसस्य समानकालीनत्वमागमने भासते । तथाच तादृशक्तेमानध्वंसकालीनागमनानुकूलकृतिमानिति द्वितीयवाक्यार्थः । एवं गोषु धोक्ष्यमाणास्वागत इत्यादावपि तादृशप्रतियोगित्वविशेषणप्रागभावस्य समानकालीनत्वं भासते । न च सप्तम्यर्थे समानकालीनत्वे प्रकृत्यर्थस्य गोरनन्वयापत्तिः । तादृशगोदोहनकर्मत्वविशिष्टाया गोः स्वविशेषणकर्मत्वविशेषणदोहनाद्याश्रयत्वसंबन्धेन कालेऽन्वयात् । __ इदं तु बोध्यम्। 'यस्य च भावेन भावलक्षणम्' इति सूत्रस्य यस्य क्रियया क्रियान्तरं लक्ष्यते इति व्याख्यानात क्रिययोः सामानाधिकरण्ये सप्तमी तत्सूत्रेणानुशिष्टेति गुणकर्माऽन्यत्वे सति सत्त्वादित्यादौ यद्यपि सप्तमी न युक्ता तथापि गुणकर्मान्यत्वे सति सत्त्वादित्याभियुक्तप्रयोगदर्शनात सूत्रतद्वयाख्यानयोर्भावक्रियापदे धर्मपरे । तथा च यस्य धर्मेण धर्मान्तरं निरुक्तस्वसामानाधिकरण्येन प्रतिपाद्यते तत्र सप्तमीति सूत्रार्थ इत्यदोषः ।। इति श्रीमहामहोपाध्यायजयरामन्यायपञ्चाननभट्टाचार्यविरचितः
कारकवादार्थः समाप्तः।
१ गोदोहनध्वंसेति पाठः । २ दोहनीयास्वेति पाठः ।