________________
वादार्थसंग्रहः
[२ भागः कनिवृत्त्यादेः फलत्वात् । 'चर्मणि द्वीपिनं हन्ति' इत्यादौ चर्मादेः सिद्धतया स्वत्वरूपफलवत्त्वेनैवेच्छाविषयत्वात् । तच प्रयोज्यत्वेन धात्वर्थेऽन्वेति । तथाच मशकनिवृत्तिविषयकेच्छाप्रयोज्यधूमकरणाश्रयः, चर्मविषयकस्वत्वप्रकारेच्छाप्रयोज्यद्वीपिकर्मकहननानुकूलकृतिमानिति च क्रमेण वाक्यार्थः । एवं 'सीम्नि पुष्कलको हतः' इत्यादावपि 'पुष्कलको गन्धमृगः सीमा तस्याण्डकोशकः' इति कोशात् । सा च 'निमित्तात्कर्मयोगे' इत्यनुशासनाद्यत्किंचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तादृशबोधजनकता च सकर्मकस्य धातोः कर्मबोधकपदयोगेन । यथा द्वीपिनं हन्तीत्यादौ । अकर्मकस्य तु कर्मविशिष्टस्वार्थशत्तया । यथाऽविद्यारजनीक्षये यदुदेतीत्यादौ उदेतीत्यस्योदयगिरिशिखरमारोहतीत्यर्थात् । अत्र रजनीक्षयस्य सूर्योदयाजन्यत्वेऽपि निमित्तत्वं ज्ञानविषयत्वेनोद्देश्यतया। तेन लोकानां रजनीक्षयज्ञानार्थमुदेतीत्यर्थ इत्येके । एतहीपवृत्तियावद्रविरश्मिसंसर्गाभावविशिष्टस्य कालस्य रजनीत्वात् , सूर्योदये तद्रश्म्युत्पादेन तत्प्रागभावनाशे विशिष्टकालनाशाद्रजनीक्षयेच्छाप्रयोज्यत्वं सूर्योदयेऽक्षतमित्यन्ये ।
शरदि पुष्प्यन्ति सप्तच्छदा इत्यत्रोत्पत्तिरपि सप्तम्यर्थः । शरदुत्पत्तिकपुष्पाश्रयाः सप्तच्छदा इति वाक्यार्थः । न च शरदुत्पत्तिकपुष्पाश्रये चम्पकादावपि तथा प्रयोगः स्यादिति वाच्यम् । सप्तच्छदस्य पुष्पाश्रयत्वे लब्धे तुल्यवित्तिवेद्यतया पुष्पेष्वपि सप्तच्छदवृत्तित्वलाभात्तदवच्छेदेन शरदुत्पत्तिकत्वस्य व्युत्पत्तिसिद्धत्वात् , चम्पकादिपुष्पत्वावच्छेदेन शरदुत्पत्तिकत्वाभावेन तथाप्रयोगाभावात् । धातोरेव वा सप्तच्छदीयपुष्पत्वेन लक्षणेति केचिदिति दिक् । । __ सतिसप्तम्याः सामानाधिकरण्यमर्थः । गुणकर्मान्यत्वे सति सत्त्वादित्यतो गुणकर्मान्यत्वसमानाधिकरणसत्त्वबोधात् । तच कचित्कालिकं, कचिद्देशिकम् । तत्राद्यं समानकालीनत्वपर्यवसन्नम् । यथा गोषु दुह्यमानास्वागतो दुग्धास्वागत इत्यादौ । अत्र सप्तम्यर्थे समानकालीनत्वे न दोहनमात्रस्य निरूपकत्वेनान्वयः, महिष्यादिदोहनसमानकालीने तथाप्रयोगाभावात् । नापि गोदोहनस्य गोदोहनत्वेन धातोरनुपस्थितेः । किंतु दण्डी पुरुषो गच्छतीत्यत्र यथा परंपरया पुरुषविशेषणतापनदण्डसमानकालीनत्वं गमने भासते, तथा गोविशेषणकर्मताविशेषण