________________
७ ग्रन्थः ]
कारकवादार्थः ।
किंतु प्रतियोगित्वादिवत्
अधिकरणत्वमेधिकरणमितिप्रतीतिसाक्षिकं
स्वरूपसंबन्धरूपमतिरिक्तं वेत्यन्यदेतत् । एवमाधेयत्वमपि वात्र्यम् । इत्थं च गृहे स्थाल्यामोदनं पचतीत्यादौ पच्यर्थः अधःसंतापनमबोवह्निसंयोगानुकूलकाष्ठवह्नयादेर्व्यापार इत्येके । पच्यर्थो विक्तित्त्व - च्छिन्नाभितण्डुलादिसंयोग एव पाकजं रूपमित्यादिव्यवहारादित्यन्ये । उभयथापि गेहाद: साक्षात्तदधिकरणत्वाभावात् कर्तृकर्मान्यतरद्वारा क्रियाश्रयत्वरूपं क्रियाधिकरणत्वं सप्तम्यर्थः । तदाहु:
•
४५.
कर्तृकर्मव्यवहितमसाक्षाद्धारयत्क्रियाम् । उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥
वस्तुतः परं परया क्रियाश्रयत्वमात्रं सप्तम्यर्थः । अत एव प्राङ्गणस्थेन दीर्घदण्डादिना काष्ठादिचालनद्वारा गृहमध्ये पाककरणे गृहस्य कर्तृद्वारा क्रियानाश्रयत्वेऽपि गृहे पचतीति प्रयोगः । वह्निचैत्रादेः साक्षात्पाकगमनादिक्रियाश्रयत्वेऽपि वह्नौ पचति चैत्रे गच्छतीत्याद्यप्रयोगात्परंपरयेत्युक्तम् । न चैवं कियाश्रयत्वस्यैव सप्तम्यर्थत्वे क्रियायोगेन विना भूतले वट इत्यादिप्रयोगो न स्यादिति वाच्यम् । इष्टत्वात् । नहि क्रियारहितं वाक्यमस्तीति शाब्दिकाः ।
वस्तुतोऽधिकरणत्वमात्रमाधेयत्वमात्रं वा सप्तम्यर्थः । क्रियांशस्य व्यर्थ - वात् । स च यत्र क्रियायामन्वेति तत्र कारकत्वव्यवहारः । अत एव भूतले घट इति ( क्रियाशून्य ) वाक्याच्छाब्दबोध इति नैयायिकाः । अत्र भूतलनिष्ठाधिकरणतानिरूपको घट इत्यन्वयबोधः । निष्ठत्वं निरूपकत्वं च संसर्ग इति प्राञ्चः । एवं सति निरूपकत्वसंबन्धस्य प्रतियोगितानवच्छेदकत्वात् भूतले न घट इत्यादौ नञर्थान्वयासंभवाद् [ आधेयत्वं सप्तम्यर्थः । तत्र च प्रकृत्यर्थस्य निरूपकतया प्रथमान्तार्थस्याधिकरणतया चान्वये ] भूतलनिरूपिताधेयत्वाश्रयो घट इत्यन्वयवोधः । निरूपितत्वमाश्रयत्वं च संसर्ग इति नव्या: ।
निमित्तसप्तम्यर्थो निमित्तत्वम् । तच्चोद्देश्यत्वं फलत्वेन फलवत्त्वेन चेच्छाविषयत्वरूपम् । तत्राद्यं मशकनिवृत्तौ धूमं करोतीत्यादौ मश१ मनुगताकार ; अधिकरणाकार । २ त्रापिती पाठ: । ३ अन्यलभ्यत्वात् ।