________________
वादार्थसंग्रहः
[२ भागः
उपाध्यायादन्तर्धत्ते शिष्य इत्यादौ धातोः स्वविषयकप्रत्यक्षविरोधिव्यापारः पञ्चम्याः संबन्धित्वं धात्वर्थतावच्छेदकप्रत्यक्षान्वितमाख्यातस्य कृतिरर्थः । तथाचोपाध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमाञ्छिष्य इति वाक्यार्थः ।। ___ दण्डाद्धटः, धूमावह्निमानित्यादौ तु पञ्चमी नापादाने, क्रियायोगाभावात् । किंतु जनकत्वज्ञापकत्वरूपे हेतुत्वे जन्यत्वज्ञाप्यत्वरूपे हेतुमत्त्वे वा 'हेतौ ' इति सूत्रेणानुशिष्टा । नचैवं · जनिकर्तुः । इति सूत्रं व्यर्थम् , काष्ठात्पर्यतीत्यत्रेव दण्डाज्जायत इत्यादावप्युत्पत्तिनिरूपितहेतुत्वार्थकपञ्चम्याः ‘हेतौ ' इति सूत्रेणैव संभवादिति वाच्यम् । उत्पत्तेरहेतुकत्वेऽपि सावधिकत्वव्यवहारादुत्पत्तिरूपधात्वर्थनिरूपितस्वरूपसंबन्धस्य हेतुत्वानात्मकतया हेतौ ' इति सूत्रेण तदर्थकपञ्चम्या असंभवादिति ॥
अधिकरणत्ववादः। अधिकरणत्वं च न *धर्मसंबन्धः* संयोगादिरूपसंबन्धस्य द्विष्ठतया बदरादेरपि कुण्डाद्याधारतापत्तेः । न च स्वधर्मसंबन्धोऽधिकरणत्वं कुण्डादिकं च न बदरादिधर्म इति वाच्यम् । स्वधर्मत्वस्य स्वायत्वरूपतया स्वाधेयत्वस्य च स्वनिष्ठाधिकरणतानिरूपकत्वरूपत्वेनान्योन्याश्रयप्रसङ्गात् ।
नापि *उत्पत्तये स्थितये ज्ञप्तये चापेक्षणीयमधिकरणम्* उत्पत्तयेऽपेक्षणीयं कार्यस्य समवायिकारणं, स्थितये घटादर्भूतलादि, ज्ञप्तये जात्यादेः समवायि समवायादेः स्वरूपसबन्धीति वाच्यम् । अपेक्षणीयत्वस्य कारणत्वरूपत्वेऽसमवायिकारणादावतिव्याप्तेः । समवायिकारणत्वं तु घटत्वादिशंर्घटादौ न संभवति ।
नापि *तद्भिन्नत्वे सति तत्पतनप्रतिबन्धकसंयोगवन्मूर्तत्वं पतनवन्मूर्ताधिकरणत्वम्* ब्रह्माण्डादिधारकसंयोगाश्रयेश्वरवारणाय मूर्तत्वमुपात्तम् । मूर्तमात्रस्य विलक्षणतत्संयोगादिमत्त्वं वा । तेन कस्यचित्यतनाप्रसिद्धावपि नाव्याप्तिः । गुणादेस्तत्समवायित्वं समवायादेस्तत्स्वरूपसंबन्धित्वम् । एवं रक्तः पट इत्यादौ परम्परासंबन्धेनापि वक्तव्यम्-इति वाच्यम्। अननुगमात् । सप्तम्या नानार्थत्वे चान्याय्यत्वात् ।
१ ज्ञप्तये इति पाठः।