________________
७ ग्रन्थः ]
कारकबादार्थः ।
४३
युक्तम् । तर्हि — जनिकर्तुः-' इत्यत एवोपपत्तौ 'भुवः प्रभवः' इति सूत्रवैयर्थ्यप्रसङ्गात् । किंतु प्रकर्षेण भवनं प्रकाश: आद्यबहिःसंयोगरूपो चात्वर्थः । बहिःपदार्थः प्रकृते भूखण्डम् । पञ्चम्यर्थः संयोगध्वंसाव्यवहिनोत्तरक्षणवृत्तित्वम् । आख्यातार्थ आश्रयत्वम् । तथा च हिमालयसंयोगध्वंमाव्यवहितोत्तरक्षणवृत्त्याद्यपृथिवीसंयोगाश्रयत्ववती गनेत्यर्थः । वैकुण्ठाकाशीतो वा गङ्गा प्रभवतीत्यप्रयोगादव्यवहितेति, आद्येति च । वैकुण्ठसंयोगध्वंसाव्यवहितोत्तरक्षणे भूसंबन्धस्य काशीसंयोगध्वंसाव्यवहितोत्तरक्षणे आद्यस्य तस्याभावाददोषः । 'वल्मीकापात्प्रभवति धनुःखण्डमाखण्डलस्य ' इत्यादावप्येवमेव । तत्र बहिःपदार्थो वल्मीकाग्रोवदेश इति विशेषः ।
कृष्णात्पराजयते शिशुपाल: अध्ययनात्पराजयते बाल इत्यादौ धातोरसहिष्णुता, पञ्चम्याः कर्मत्वमाख्यातस्याश्रयत्वमर्थः । श्रीकृष्णं न सहते, अध्ययनं न सहते इतिविवरणात् । असहिष्णुता च द्वेषः, अभिभवाशक्यत्वज्ञानम, अशक्यत्वज्ञानं वा । तथा च श्रीकृष्णविषयकाभिभवाशक्यत्वज्ञानवान् शिशुपाल: कृष्णविषयकद्वेषवान् वेत्याद्यस्य, अध्ययनविषयकाशक्यत्वज्ञानवान् बाल इत्यन्त्यस्यार्थः ।
विप्राद्धनमादत्ते इत्यादौ पञ्चम्या यथेष्टविनियोगोऽर्थो नतु स्वत्वं चौराद्धनमादत्ते इत्यादौ चौरस्य म्वत्वाभावेन तदसंभवात् । धातोरपि यथेष्टविनियोगफलकस्वीकारोऽर्थो न तु म्वत्वजनकस्वीकारः । विप्राद्धनमादत्ते चौर इत्यादौ चौरम्य तदसंभवात् । पञ्चम्यर्थश्च विनियोगोऽव्यवहितोत्तरत्वसंबन्धेन धात्वर्थतावच्छेदके विनियोगेऽन्वेति । अव्यवहितोत्तरत्वं च म्वसमानविषयकपुरूषान्तरीयविनियोगव्यवहितभिन्नत्वम् । तेन शूद्रतः प्रतिग्रहीत्रा विप्रेण दत्तं धनमादातरि शूद्रादादत्त इति न प्रयोगः । इत्थं च विप्रीययथेष्टविनियोगाव्यवहितोत्तरधनवृत्तियथेष्टविनियोगफलकम्वीकारवानित्यर्थः । ___ अधर्माज्जुगुप्सत इत्यत्र पञ्चम्याः कर्मत्वं धातोनिन्दार्थः । तथाचाधर्म निन्दतीत्यर्थः । अधर्माद्विरमतीत्यत्र धातोः करणानन्तरमकरणं पञ्चम्याः कर्मत्वमर्थः । स च करणेऽकरणे चान्वेति । तथा चाधर्म कृत्वा पुनर्न करोतीत्यर्थः । धर्मात्प्रमाद्यतीत्यादौ पञ्चम्या विषयत्वं धातोरनवधानमाख्यातस्याश्रयत्वमर्थः । धर्मविषयकावधानाभावाश्रय इति वाक्यार्थः ।