________________
४२
वादार्थसंग्रहः
[ २ भाग:
या
- विरोधिव्यापारविषयक कृतिमानिति वाक्यार्थः संपद्यते । स न युक्तः । यत्र हि क्षणावस्थायिनि खण्डकूपे परमाण्वादेरधः संयोगो मानाभावेनासिद्धः तत्रासंभवात् । अत एव द्वितीयायाः पतनं पञ्चम्या धात्वर्थतावच्छेदकाभावान्वयि वृत्तित्वं धातोरभावानुकूलव्यापारोऽर्थः । तथा च क्रूपवृत्त्यन्धपतनाभावानुकूलव्यापारविषयकयत्नवानित्यन्वयोऽप्यपास्त: । यदन्धस्य पतनमप्रसिद्धं तत्रासंभवात् । किंतु धातोरभावानुकूलव्यापारः पञ्चम्या वृत्तित्वं द्वितीयायाः प्रतियोगित्वमनुयोगित्वं वा धात्वर्थतावच्छेदकीभूताभावान्वितमर्थः । अभावश्च कूपादि समभिव्याहारात्पतनादिना तज्जन्याधः संयोगादिना वा संबन्धेन बोध्यः । तथाच पतनादिसंबन्धेन क्रूपवृत्त्यन्धप्रतियोगि काभावानुकूलव्यापारविषयक यत्नवानिति वाक्यार्थः । एवमेतस्मात्सविषादन्नादिदं मित्रं वारयतीत्यादौ यत्सविपान्नस्य यन्मित्रस्य च भोजनमप्रसिद्धं तत्रापि भोजनसंबन्धेन सविषान्नवृत्तिमित्रप्रतियोगका भावानुकूलव्यापार विषयक कृतिमानित्यन्वयधीः ।
परे तु कूपादन्धं वारयतीत्यत्र सविषादन्नादिदं मित्रमित्यत्र च धातोः पतनमाद्ये, द्वितीये भोजनम् ; अभावानुकूलव्यापारश्चोभयत्रार्थः । पञ्चम्या अवच्छिन्नत्वमाद्ये द्वितीये कर्मत्वमुभयत्र द्वित्वं चार्थः । द्वितीयायाश्च कर्तृत्वमर्थः । धात्वर्थतावच्छेदकीभूताभावे धात्वर्थपतनादेरधिकरणत्वेन, द्वित्वावच्छिन्नस्य पञ्चम्यर्थद्विर्तायार्थकर्तृत्वोभयस्य च प्रतियोगित्वेनान्वयो व्युत्पत्तिवैचित्र्यात् । तथाच पतनसामान्ये यः कूपावच्छिन्नत्वान्धकर्तृत्वोभयप्रतियोगिकाभावस्तदनुकूलव्यापारविषयकयत्नवानिति आद्यस्य, यः
भोजनसामान्ये सविषान्नकर्मत्वमित्रकर्तृत्वोभयप्रतियोगिकाभावस्तदनुकूलव्यापारविषयक यत्नवानिति द्वितीयस्यार्थः ।
आकाशं न पश्यति घटत्रो वेत्यादौ द्वितीयया विषयित्वं लक्षया घटादिवृत्तित्वं द्वित्वं च बोध्यते । धातुना लौकिकविषयित्वावच्छिन्नचाक्षुषप्रत्यक्षम् । तथा च लौकिकचाक्षुषप्रत्यक्षसामान्ये य आकाशविषयित्वघटादिवृत्तित्वोभयाभावः तत्प्रतियोगिनिरूपको घट इत्यर्थः । आकाशविषयकचाक्षुषोपनीतभानेऽपि लौकिकविषयित्वावच्छेदेनाकाशविषयित्वचैत्रवृत्तित्वाभयाभावसत्त्वान्न दोषः । एवमन्यत्राप्रसिद्धिस्थले बोध्यमित्याहुः ।
हिमवतो गङ्गा प्रभवतीत्यादौ पञ्चम्या हेतुत्वं धातोरुत्पत्तिरर्थं इति न