________________
७ ग्रन्थः ]
कारकवादार्थः । न्वयिक्रियाशून्यमिति नदर्थः । तेन धावतोऽश्वात्पततीत्यादावश्वादेः पुरुपनिष्ठविभागहेतुक्रियावत्वेऽपि प्रकृतपञ्चम्यर्थविभागजनकत्वान्वयिनी या पतनक्रिया तच्छ्रन्यत्वमव्याहतम् । स्पन्दजन्यविभागाश्रयत्वेन वृआदेरपादानत्वे वृक्षात्पर्ण स्पन्दत इत्यपि स्यादतः क्रियेति सकर्मकबात्वर्थपरम् । ___ व्याघ्राद्विभेतीत्यादौ पञ्चमी नापादानवे, किंतु हेतुत्व इत्यग्रे वक्यते । धात्वर्थतानवच्छेदकत्वेन विभागो विशेष्यः । तेन वृक्षं त्यजति ग्वग इत्यादौ वृक्षस्य नापादानत्वम् ।
यत्तु विभागावच्छिन्नक्रियायास्त्यजधात्वर्थतया विभागे विभागविशिप्रक्रियाजन्यत्वाभावात्र दोष इति तन्न । तर्हि अधःसंयोगावच्छिन्नक्रियाया एव पतत्यर्थतया वृक्षपर्णविभागेऽधःसंयोगविशिष्टक्रियाया अजनकत्वादसंभवापत्तेः । विभागे फलोपलक्षितव्यापारजन्यत्वमुभयत्र तुल्यमिति दिक् ।
वृक्षाद्विभजत इत्यादौ विभागावधित्वमपादानत्वम्, अवधित्वं स्वरूपसंवन्धरूपं पञ्चम्यर्थः । अपाये विभागे ध्रुवम् अवधिभूतमपादानमित्यपि पाणिनिसूत्रार्थः । तथा च वृक्षनिष्ठावधितानिरूपकविभागाश्रयः पर्णमित्युक्तवाक्यार्थः । न चैवं स्वस्माद्विभजत इत्यपि स्यात् । म्वप्रतियोगिकत्वविशिष्टसंयोगस्येव स्वावधिकत्वविशिष्टविभागस्यापि म्वस्मिन्नभावान् । इत्थं चापादानपदं पञ्चमी च नानार्थमेवेति बोध्यम् । धावतोऽश्वात्पततीत्यादावपि अवधित्वमेव पञ्चम्यर्थ इत्यपि कश्चित् ।
व्याघ्राद्विभेति, शत्रोः परित्रायत इत्यादौ पञ्चमी नापादाने किंतु 'भीत्रार्थानां भयहेतुः' इति सूत्रेणानुशिष्टा हेतुत्वार्थिका । धातोश्च यथायथं भयं भयाभावश्वार्थः । पश्चम्यर्थहेतुत्वं धात्वर्थे भये धात्वर्थतावच्छेदके च भयेऽन्वेति । आश्रयत्वं व्यापारश्च यथायथमाख्यातार्थः । तथा च व्यावहेतुकभयाश्रय इत्याद्यस्य शत्रुहेतुकभयाभावानुकूलव्यापाग्वानित्यन्त्यस्यार्थः । इत्थं च हेतुपञ्चम्यैवोपपत्तौ पृथक्सूत्रं प्रपञ्चार्थमिति बोध्यम् ।
एवं कूपादन्धं वारयात्यादौ पञ्चम्या अधःसंयोगानुकूलक्रियारूपं पतनं; द्वितीयाया थात्वर्थव्यापारान्वितं वृत्तित्वम्, धातो: विरोधिव्यापारोऽर्थः । तथा चान्धवृत्ति-कूपादिनिष्ठाधःसंयोगानुकूलक्रि