________________
४०
वादार्थसंग्रहः
[२ भागः दिजन्यदुःखादिदूतजन्यवार्ताज्ञानादि फलशालित्वेनोद्देश्यत्वमेव गौणं वृक्षायेत्यादिचतुर्थीत्रयार्थः ।
न च गुरुप्रीत्युद्देशेन गुरुपुत्राय दत्ते गुरवे ददातीति स्यात् , तथा विवक्षायामिष्टत्वात् । अत एव रजकसंबन्धित्वस्य तात्पर्यविषयत्वे रजकस्य वस्त्रं ददातीति प्रयोगः । वस्त्रजन्यफलभागित्वेनोद्देश्यत्वस्य तत्त्वे तु रजकाय वस्त्रं ददातीति भवितव्यम् ।
न चैवं श्राद्धादावपि पित्रादेः प्रीतिभागित्वेनोद्देश्यत्वात् संप्रदानचतुर्यैवोपपत्तेः 'नमः स्वस्ति ' इत्यादि सूत्रान्तरं व्यर्थम् । यत्किंचिनिया( कर्म )जन्यफलभागित्वेनोद्देश्यत्वस्यैव गौणसंप्रदानत्वरूपतया नमःपदार्थादेः क्रियात्वाभावेन पृथक्सूत्रप्रणयनात् ।
नारदाय रोचते कलहः, वैश्याय शतं धारयतीत्यादौ तु न नारदादेः संप्रदानता किंतु 'रुच्यर्थानां प्रीयमाणः', 'धारेरुत्तमर्णः ' इति सूत्राभ्यां संबन्धमात्रे चतुर्थी । तथा च चतुर्थ्या संबन्धो धातुना रुचिराख्यातेन विषयता बोध्यत इति नारदस्य रुचिविषयः कलह इत्याद्यस्य; पुनर्दानमङ्गीकृत्य द्रव्यग्रहणं धारणं, वैश्यस्य शतकर्मकतादृशग्रहणाश्रय इत्यन्त्यस्यार्थः ।
संप्रदानस्य कारकत्वं धात्वर्थतावच्छेदकफलनिष्पादकत्वेन ददस्वेत्यनुमतिप्रकाशनेन दातुरिच्छामुत्पाद्य दानसंपादनेन वेत्याहुः। ___ परे तु *त्यागजन्यस्वत्वजनकस्वीकारवत्त्वं संप्रदानत्वम् । श्राद्धादौ पित्रोदन स्वीकारः । रुद्राय गां ददातीत्यादावपि गौणसंप्रदानत्वमुद्देश्यत्वरूपमित्याहुः।
अपादानत्ववादः। परकीयक्रियाजन्यविभागाश्रयत्वमपादानत्वम् । वृक्षात्पर्ण पततीत्यादौ पर्णादेरपादानत्ववारणाय परकीयेति । अत्र पञ्चम्या विभागजनकत्वमन्योन्याभावप्रतियोगितावच्छेदकत्वं चार्थः । विभागेऽन्योन्याभावे चाधिकरणत्वेन वृक्षोऽन्वेति । तथा च वृक्षवृत्तिविभागजनकवृक्षवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकपतनाश्रयः पर्णमिति वाक्यार्थः। तथा च 'ध्रुवमपायेऽपादानम् ' इति पाणिनिसूत्रम् । अपाये विभागे ध्रुवं निश्चलं प्रकृतपञ्चम्यर्थविभागजनकत्वा