________________
७ ग्रन्थः ]
कारकवादार्थः ।
३९
सिञ्चतीति न स्यात् , धात्वर्थताऽवच्छेदकक्रियाया वृक्षावृत्तित्वादिति वाच्यम् । अत्र क्रियान्तस्य धात्वर्थतया धात्वर्थतावच्छेदकद्रवद्रव्यसंयोगस्य वृक्षवृत्तित्वात् । द्रवद्रव्यसंयोग एवात्र धात्वर्थ इति तु न युक्तम् । तर्हि फलावच्छिन्नव्यापाराबोधकत्वाद्धातोरकर्मकत्वं, धात्वर्थतावच्छेदकफलशालित्वाभावाद्वक्षादेरकर्मत्वं च स्यात् ।
अत्राजां ग्रामं नयतीतिवहिकर्मकत्वं स्यादिति नाशङ्कनीयम् । क्रि. यान्तार्थत्वे [धात्वर्थतावच्छेदक] फलद्वयाभावात् , तादृशक्रियानुकूलव्यापारार्थत्वे च क्रियाया मेव द्वितीयार्थवृत्तित्वान्वयात् । क्रियावच्छेदकसंयोगे तु वृक्षायेत्यादिचतुर्थ्यर्थस्योद्देश्यत्वस्यैवान्वयो न द्वितीयार्थस्य, व्युत्पत्तिवैचित्र्यात् । चतुर्थीसमभिव्याहतस्यैव सिचधातोस्तादृशव्यापारार्थत्वात् । अत एवाजां ग्रामं नयतीत्यत्र ग्रामस्य न संप्रदानत्वम् । अत्र हि संयोगावच्छिन्नक्रियानुकूलव्यापारः प्रेरणादिर्धात्वर्थः, द्वितीयार्थो वृत्तित्वम् । संयोगे तु ग्रामपदोत्तरद्वितीयार्थः क्रियायामजापदो. त्तरद्वितीयार्थोऽन्वेति । तथैव व्युत्पत्तेः । तादृशफलभागित्वेन ग्रामादेरनुदेश्यत्वान्न संप्रदानता । तथोद्देश्यत्वविवक्षायां प्रामायाजां नयतीति भवत्येवेति दिक् ।
परे तु *त्यज्यमानद्रव्यस्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वम् * । त्यागोऽत्र विलक्षणो ग्राह्यः । तेन विक्रयादौ क्रेत्रादेर्न संप्रदानत्वम् । कर्मणा दानकर्मणा यमभिप्रेति स संप्रदानमिति 'कर्मणा ' इत्यादिसूत्रार्थः । अत एव संप्रदीयतेऽस्मै इति संप्रदानसंज्ञान्वथैव । श्राद्धादौ पित्रादेर्न स्वत्वभागित्वेनोद्देश्यत्वं किंतु प्रीतिभागितयेति संप्रदानत्वाभावेन संप्रदानचतुर्थ्यसंभवात् 'नमः स्वस्ति' इत्यादिना सूत्रान्तरेण तत्र चतुर्थी ।___ एवं वृक्षायोदकमासिञ्चतीत्यादौ वृक्षादौ संप्रदानप्रयोगो गौणः चतुर्थीप्राप्त्यर्थः । अत एव शत्रवेऽत्रं मुञ्चति, मित्राय दूतं प्रेषयतीत्यादौ धात्वर्थातवच्छेदकफलभागित्वेनोद्देश्यत्वाभावेऽपि चतुर्थी । विभागानुकूलक्रियानुकूलव्यापारो मोचनम् । संयोगानुकूलक्रियानुकूलव्यापारः प्रेषणमिति धात्वर्थतावच्छेदकक्रियावच्छेदकसंयोगविभागरूपफलशालित्वेन शत्रुमित्रयोरनुद्देश्यत्वम् । इत्थं चोदकादिजन्यफलपल्लवाद्यस्त्रा
१ क्रियारूपफलजन्यफलशा'; क्रियारूफलशा।