________________
३८
[ २ भाग:
नोद्देश्यस्य चैत्रादेस्तत्क्रियायां संप्रदानत्वाभावात्तद्वारणाय करणीभूतेति । गमनक्रियाया ग्रामस्याकरणत्वान्न दोषः । दानादौ देयादिकं करणमिति प्रकृतसंगतिः ।
वादार्थसंग्रहः
पितृस्वर्गोद्देशेन कृतगोदानस्थले दानजन्यफलभागित्वेनैव पितो - द्देश्यः, नतु गोजन्यफलभागित्वेनेति न पित्रादेः संप्रदानत्वम् । अत एव पित्रे गां ददातीति न प्रयोगः । यदि चादृष्टद्वारा गोजन्यत्वं फले दत्ता गौः पितुः स्वर्गमुत्पादयिष्यतीति चाभिसंधिस्तदा फले कर्मजन्यत्वमदृष्टाद्वारकं ग्राह्यम् । अत एव न स्वस्मिन्स्वकर्तृकदानसंप्रदानत्वापत्तिः, न वा चैत्रत्राय गां ददातीति प्रयोगप्रसङ्गः ।
वस्तुतो धात्वर्थतावच्छेदकत्वेन फलं विशेष्यम् । पितुः स्वर्गादिकं न तथेत्यदोषः । इत्थं च विप्राय गां ददातीत्यत्र संबन्धित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः । चैत्राय चैत्रो ग्रामं गच्छतीत्यादिवारणाय परेति । स च धात्वर्थतावच्छेदकफलेऽन्वेति । वृत्तित्वं द्वितीयार्थः । तथा च विप्रसंबन्धित्वेन परेच्छाविषयगोवृत्तिस्वस्वत्वध्वं सपूर्वकपरस्वत्वानुकूलत्यागानुकूलकृतिमानित्यन्वयधीः ।
यत्तु अत्र जन्यफलप्रकारकेच्छापूर्वकत्वं क्रियान्वयि चतुर्थ्यर्थः । व्युत्पत्तिवैचित्र्याच तदेकदेशे जन्यत्वे कर्मणो गवादेर्निरूपकत्वसंबन्धेनान्वयः । तथा च विप्रविषयको निरूपित] जन्यफलप्रकारकेच्छापूकगोवृत्ति स्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागानुकूलकृतिमानित्यन्वयधीरिति नन्न, गोजन्यफलस्य प्रकृते स्वत्वरूपतया विप्रविषयिका या गोजन्यफलप्रकारकेच्छा तत्पूर्वकत्वस्य दानेऽसंभवात् तादृशेच्छाया एव दानत्वात्, गौरवाञ्चेति दिक् ।
एवं वृक्षायोदकमासिश्चतीत्यादौ संयोगावच्छिन्नद्रवद्रव्यक्रियावच्छिव्यापारो धात्वर्थः । वृत्तित्वेच्छाविषयत्वं चतुर्थ्यर्थः । स च धात्वर्थतावच्छेदकतावच्छेदके संयोगेऽन्वेति । वृत्तित्वरूपद्वितीयाथोंऽपि तादृशद्रवद्रव्यक्रियायाम् । एवं च वृक्षवृत्तित्वेनेच्छाविषयसंयोगानुकूलोदकवृत्तिद्रवद्रव्यक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयधीरितिं । अत्र क्रियान्तस्य धात्वर्थत्वे वृक्षस्य कर्मत्वं स्यात् । न तु जलस्य । क्रियाया वृक्षापेक्षयैव परसमवेतत्वात् । न चैवं पयसा वृक्षमा
१ गोवृत्तिपरेति पाठः । २ निरूपितत्वेनेति पाठः ।