SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ७ ग्रन्धः ] कारकवादार्थः । ३७ परे तु अक्षणा काण इत्यादावभेद तृतीया । तथा च तादृशगोलका - भिन्नं यचक्षुः शुन्यमुपहतं वा तद्वानिति वाक्यार्थः । एवं मुखेन त्रिलोचन इत्यत्र त्रिलोचनपत्रं लोचनत्रयविशिष्टवत्परम् । तथा च मुखाभिन्नलोचनविशिष्टवानित्यर्थ इत्याहुः । नकुलमित्यादहेतुत्वे तृतीया । क्रियान्वयिनिरुक्तकरणत्वार्थिका तृतीया : कर्तृकरणयोस्तृतीया' इत्यनेन विहिता । ' हेतौ ' इति सूत्रेण तु नामार्थेऽप्यन्वितहेतुत्वार्थिकेति विशेषः । पुत्रेण सहागतः पितेत्यत्र तृतीयायाः कर्तृत्वमर्थः । सहशब्दसमभिव्याहृतक्रिया सहशब्दार्थः । एककालीनत्वसंबन्धेन तस्याः समभिव्याहृतक्रियायामन्वयः । तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तेत्यर्थः । शिष्येण सह गुरुर्ब्रह्मणः पुत्रेण सह पिता सुन्दर, इत्यादौ सहार्थो ब्राह्मण्यादि समानकालीनत्वसंवन्धेन ब्राह्मणत्वादिपदार्थैकदेशेऽन्वेति । परे तु सहार्थः साहित्यमेकधर्ममात्रं, तृतीयार्थी वृत्तित्वं संख्यामात्रं वा, तथा च शिष्यवृत्तिसाहित्यवान्गुरुर्ब्राह्मण इत्यादिबध इत्याहुः । केनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सदैव दृशभिः पुत्रैर्भारं वहति गर्दभी । इत्यादौ पुत्रेषु भारवहनकर्तृत्वाभावेऽपि सहप्रयोगे विद्यमानेत्यस्याध्याहान् विद्यमानत्वं साहित्यं सहशब्दार्थः । तथाच समानकालीनत्वसंबन्धेन दशपुत्रवृत्तिविद्यमानत्वविशिष्टविद्यमानत्वाश्रयः इत्याकारकान्वयवोचः । ॐ एवं विधानसहायें तृतीयेति शाब्दिकाः । वाचनीयत्र गार्ग्यः प्रकृत्याभिरूप इत्यादौ तृतीयाया अमेदोऽर्थः । तथा च धान्याभिन्नधनवान्, गोत्राभिन्नगर्ग कुलोत्पन्नः, साहजिकाभिन्नरमणीयतावानित्यर्थः । प्रकृतिपदस्य साहजिकार्थत्वादभिरुपपदस्य रमणीयतावदर्थकत्वादिति दिक् ॥ संप्रदानत्ववादः । ' कर्मणा यमभिप्रैति स संप्रदानम् ' इति पाणिनिसूत्रम् । तत्क्रियाकरणीभूतेन तत्क्रियाकर्मणा यमभिप्रैति [ तत्क्रियातत्क्रियाप्रयोजनकेच्छान्यतर ] फलभागित्वेनोद्देश्यीकरोति स संप्रदानमिति सूत्रवाक्यार्थः । करणीभूत कर्मजन्य फलभागित्वेनोद्देश्यत्वं संप्रदानत्वम् । इति फलितम् । ग्रामं गच्छतीत्यादौ गमनकर्मग्रामजन्यसुखभागित्वे
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy