SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ वादार्थसंग्रहः [२ भागः चैत्र आत्मना चैत्रेण वा पचतीत्यप्रयोगात् , कर्तुः शरीरस्य च वारणाय द्रव्यसमवायिभिन्नात् क्रियानुकूल कृतिमतो भिन्नत्वेन विशेष्यम् । कृतिमत्त्वं समवायेनावच्छेदकतया च । तेन शरीरस्यापि व्युदासः । भिन्नादित्यन्तेन हस्तादिसंग्रहः, हस्तादिना छिनत्तीति प्रयोगात् । व्यापारवत्त्वं च जनकतया । तेन व्याप्तिस्मृत्यादिसाधारण्यमित्याहुः । अत्र परशुना छिनत्तीत्यादौ निरुक्तकरणत्वं तृतीयार्थः । आश्रयत्वेन प्रकृत्यान्वितस्य तस्य धात्वर्थे निरूपकत्वेनान्वयः । तथा च परशुनिष्ठकरणतानिरूपकच्छिदानुकूलकृतिमानिति वाक्यार्थ इति प्राञ्चः । नव्यास्तु परशुना छिनत्ति न दात्रेणेत्यादौ नत्रर्थान्वयानुरोधेन निरुक्तकरणत्वनिरूपितं जन्यत्वमेव तृतीयार्थः । तस्य च निरूपितत्वेन प्रकृत्यान्वितस्य आश्रयतया धात्वर्थेनान्वयः । इत्थं च परशुनिरूपितं जन्यत्वं दात्रनिरूपितजन्यत्वाभावश्च छिदायामन्तीत्याहुः । जटाभिस्तापस इत्यादौ तृतीयोपलक्षणे । तत्त्वं च *अतब्यावृत्त्यनवच्छेदकत्वे सत्यतळ्यावृत्तिसामानाधिकरण्यम* । अस्ति च जटायामतापसव्यावृत्त्यनवच्छेदकत्वं शमादिमत्त्वस्यैव तदन्यूनानतिरिक्तवृत्तितया तदवच्छेदकत्वात् । शमादिना तापस इतित्वपप्रयोगः । विवक्षातस्तथा प्रयोगस्येष्टत्वे तु विशेषणोपलक्षणसाधारणवैशिष्टयमेव तृतीयार्थः। . ___ अक्ष्णा काणः, पादेन खज: इत्यादौ 'येनाङ्गविकारः' इत्यनेन तृतीया, येनाङ्गेन विकारो हानिराधिक्यं वा तदङ्गबोधका त्ततीयेति सूत्रार्थः । एवं चात्र तृतीयाया वृत्तित्वमर्थः । तच्च व्युत्पत्तिवैचित्र्यात्काणादिपदार्थस्यैकदेशे विकारेऽन्वेति । काणत्वं बहिरवच्छेदेन चक्षुःशून्यगोलकवत्त्वम् । जातमात्रान्धस्याकाणत्वे तु चक्षुष्मद्गोलकवत्त्वे सतीति वाच्यम् । यदि च बहिरवच्छेदेन चक्षुःसत्त्वेऽपि उपघातादेव न चाक्षुषं तदोपहतगोलकवत्त्वं काणत्वमक्षिपदं चक्षुष्मद्गोलकपरम् । एवं च चक्षुष्मगोलकवृत्ति यच्चक्षुःशून्यत्वमुपघातो वा तद्विशिष्टगोलकवानिति अक्षणा काण इत्यस्यार्थः । एवं खञ्जत्वं संस्थानविशेषशून्यपदवत्त्वम् । तथाच पदवृत्ति यत्तथाविघसंस्थानशून्यत्वं तद्विशिष्टपदवानिति पादेन खञ्ज इत्यस्यार्थः । मुखेन त्रिलोचन इत्यत्र बहुव्रीहिः । तथाच मुखवृतिलोचनत्रयवानित्यर्थः ।। १ न प्रयोगः । २ जातप्रसन्नान्धस्य; जातप्रसवान्धस्य ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy