________________
७ ग्रन्थः ]
कारकवादार्थः ।
३५
करणत्ववादः। करणत्वं कारकान्तरेऽचरितार्थत्वे सति क्रियाहेतुत्वम् ।
कारकान्तरनिष्ठव्यापारद्वारा क्रियाहेतुत्वाभावः सत्यन्तार्थः । कर्तृकारके आरम्भकसंयोगप्रतिद्वन्द्विविभागानुकूलकुठारादिक्रियाया एवं छिदादिधात्वर्थतया कर्तुः कुठारादिकरणनिष्ठव्यापारद्वारा छिदादिहेतुत्वान्नातिप्रसङ्गः । कर्मणस्तु तादृशक्रियाहेतुत्वविरहादेव नातिप्रसङ्गः । अधिकरणमपि कर्तृकर्मान्यतरव्यापारद्वारा क्रियाहेतुः । चैत्रो गृहे स्थाल्यामोदनं पचतीत्यादौ गृहस्थाल्याद्यधिकरणं कर्तृकर्मसंयोगद्वारा पाकादिक्रियासाधनम् । संप्रदानं स्वानुमतिप्रकाशनेन कर्तुरिच्छाद्वारा दाननिमित्तम् । अपादानं पतनप्रतिबन्धकसंयोगनाशकपत्रादिविभागद्वारा पतनादिनिमित्तमिति नातिप्रसङ्गः ।
न चैवं कुठारादिकरणस्यापि कर्तृनिष्ठव्यापारसापेक्षत्वादसंभवः । कारकान्तरनिष्ठव्यापारसंबन्धावच्छिन्नजनकत्वाभावस्य सत्यन्तार्थतया कुटागदिक्रियारूपच्छिदिक्रियायां कुठारस्य तादात्म्यसंबन्धेन हेतुतया कर्तृनिष्ठव्यापारसंबन्धेनाहेतुत्वात् । न च कुठारादिव्यापारादावतिव्याप्तिरिति वाच्यम् , तस्यापि एतन्मते लक्ष्यत्वात् । अत एव *फलायोगव्यवच्छिन्नं कारणं करणम् इति वदन्ति ।
वस्तुतस्तु *व्यापारवत्त्वे सति कारणं करणम्* । न चैवं कार्यमाने ज्ञानादौ चादृष्टस्य मनोयोगस्य च व्यापारस्य सत्त्वादात्मनोऽपि करणत्वापत्तिः, इष्टत्वात् । उपधेयसंकरेऽपि कर्तृत्वकरणत्वलक्षणोपाधेरसंकरात् व्यवहारभेदोपपत्तेः । इत्थं चानुमितौ व्याप्तिज्ञानं करणम् , परामर्शस्य व्यापारत्वात् । चाक्षुषादौ चक्षुरादि, तत्संयोगस्य व्यापारत्वात् । श्रावणज्ञाने श्रोत्रमनःसंयोगस्य व्यापारत्वान्न तु शब्दस्य, शब्दाभावप्रत्यक्षे तस्य व्यभिचारात् ।
परे तु * फलानुकूलकर्तृव्यापारवत्त्वम् * अस्ति च कुठारादेः छिदानुकूलकर्तृसंयोगादिमत्त्वम् । न च गृहस्थाल्याद्यधिकरणस्यापि कर्तृव्यापारवत्त्वात्करणत्वापत्तिरिष्टत्वात् । स्थाल्यानं साधयतीत्यादिप्रयोगात् । गवा दानं साधयति, ब्राह्मणेन दानं साधयतीत्यादिप्रयोगात् तत्रापि तदिष्टम् ।
१ संबन्धावच्छिन्नक्रि । २ दव्याप्तिः । ३ कर्तृकुठाराभिघातेऽति ।
-