________________
वादार्थसंग्रहः
[२ भागः तश्च कर्म त्रिविधम्-प्राप्यं, विकार्य, निर्वयं च ।
तत्र संयोगादिरूपक्रियाजन्यफलशालि प्राप्यम् । यथा-ग्रामं गच्छती. त्यादौ ग्रामादिः ।
यल्लब्धसत्ताकमेवावस्थान्तरमापद्यते तद्विकार्यम् । यथा-काष्ठं भस्म करोति, सुवर्ण कुण्डलं करोतीत्यादौ यथा काष्ठादिः, काष्ठादिपदलक्ष्यस्य काष्ठावयवादेः सत एव भस्मादिसंबन्धरूपावस्थान्तरप्राप्तेः । .
यत्तु क्रिया यत्कर्मनाशकं फलं जनयति तद्विकार्यम् । यथा-काष्ठं लुनातीत्यत्र काष्ठमिति तन्न, काष्ठपदलक्ष्यस्य काष्ठावयवस्य कर्मतया क्रियायास्तन्नाशकत्वाभावात् । अत्र हि काष्ठपदस्य काष्ठावयवो लुनातेरारम्भकसंयोगप्रतिद्वन्द्विविभागहेतुक्रियानुकूलः कुठारादिव्यापारोऽर्थः । तथा च काष्ठावयववृत्त्यारम्भकसंयोगप्रतिद्वन्द्विविभागजनकक्रियानूकूलव्यापारानुकूलकृतिमानित्यन्वयर्धारिति काष्ठावयवस्य प्राप्यकर्मतैवावस्थान्तरप्राप्त्यभावान्न विकार्यता । तण्डुलं पचतीत्यादौ तण्डुलपदलक्ष्यस्तण्डुलावयवः पच्यर्थों रूपादिपरावृत्त्यवच्छिन्नो विक्लित्त्यवच्छिन्नो वा तेजस्संयोगः । तथाच धात्वर्थजन्यफलशालित्वात्सतोऽवस्थान्तरप्राप्तेश्च उभयवि. धकर्मत्वं तण्डुलावयवस्येष्टम् । असंकीर्णस्थानमुक्तमेक्त्यदोषः । ।
यस्त्रियया निष्पद्यते तन्निवर्त्यम् । यथा-घटं कटं वा करोतीत्यादौ घटादि । अत्र कृषः फलावच्छिन्नव्यापारबोधकत्वाभावाद्गौणकर्मत्वम् । तच्च साध्यताख्यकृतिविषयत्वम् । अत एव वीरणं करोतीत्यादिर्न प्रयोगः ! वीरणादावुपादानताख्यकृतिविषयताया एवं सत्वात् ।
यत्तु कटादिपदस्य कटाद्यवयवे निरूढलक्षणा । तत्र विना लक्षणां कटादेगौंणकर्मत्वसंभवेऽपि कारकत्वासंभवात् , निरूढलक्षणाया मुख्यप्रयोगापवादकत्वाञ्च न वीरणं करोतीति मुख्यप्रयोग इति । तन्न, घटं जानाति अतमित्यादौ घटादेरिव कटादेरपि गौणकारकत्वसंभवात् ।
स्तोकं पचतीत्यादौ क्रियाविशेषणपदोत्तरद्वितीया विशेषणविभक्तिवत् प्रयोगसाधुत्वाय नामार्थधात्वर्थयोरभेदान्वयस्वीकारेणाभेदस्य संसगैत्वात् । तदस्वीकारे तु विशेषणविभक्तिवदस्तु साऽभेदार्थिका । तस्याः कारकत्वाभावस्तु क्रियान्वितकर्तृत्वाद्यन्वितत्वाभावादिति दिक् ।।