________________
७ ग्रन्थः ]
कारकवादार्थः ।
तत्र सकलेविशेषणसहितदानलक्षणातिव्याप्तिरित्यपास्तम्, दानत्वजातेस्तत्राभावात् । परमात्रस्वत्वानुकूलत्व विशेषणात् संसृष्टिनिरास इत्यन्ये । तत्र न स्वत्वनाशः किंतु परस्वत्वोत्पत्तिमात्रम् । स्वत्ववति स्वत्वोत्पत्तिस्तंत्रच्छाया उत्तेजकत्वात् । स्वस्वत्वध्वंसपूर्वकत्व विशेषणादेव तन्नि
३३
इत्यन्ये । परे दृष्टविशेष जनकत्व विशेषणात्तव्यावृत्तिरित्यप्याहुः । एतेन विनिमये विक्रयादिलक्षणातिव्याप्तिरित्यपास्तम् । विक्रयत्वादेर्जातित्वात् । मूल्यातिरिक्तद्रव्यग्रहणप्रयुक्तस्वस्वत्वध्वंस पर स्वत्वानुकूलत्यागी विनिमय इत्यन्ये ।
किमत्र स्वत्वमिति चेत् । अत्र प्राञ्चः - यथेष्टविनियोज्यत्वं स्वत्वम् । तच शास्त्रानिषिद्धविनियोगोपायो यः कयप्रतिग्रहादिस्तद्विषयत्वम् । तच्च न बहिरिन्द्रियवेद्यम् । प्रतिग्रहादेर्मानसज्ञानविशेषरूपस्य बहिरिन्द्रियायो - ग्यत्वादित्याहुः ।
नव्यास्तु - प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहाराद्दानादितः स्वत्वं नश्यति प्रतिग्रहादितच स्वत्वमुत्पद्यते इत्यादिप्रत्ययव्यवहारप्रामाण्यानुगेधान् स्वत्वमतिरिक्त एव पदार्थः । तच्च स्वत्वं दानादितो नश्यति, प्रतिग्रहादितश्च जायते । तच बहिरिन्द्रिययोग्यं, स्वं पश्यामीति प्रतीतेः । नदीययथेष्टविनियोज्यत्वज्ञानस्य तदीयस्वत्वसाक्षात्कारहेतुत्वान्न यथेष्ट - विनियोगाद्यज्ञानदशायां स्वत्वसाक्षात्कारापत्तिः ।
वस्तुतस्तदीययथेष्टविनियोज्यत्वे तदीयस्वत्वव्यभिचारित्वग्रहदशायां त
स्वत्वसाक्षात्कारानुदयान तदीयस्वत्वसाक्षात्कारं प्रति तदीयस्वत्वयाप्यतदीययथेष्टविनियोज्यत्ववदिदमित्याकारकज्ञानस्य हेतुत्वं वाच्यम् । तथा च स्वत्वस्यानुमितिरेव न तु साक्षात्कारः । स्वत्वे लौकिकविप्रयताकल्पने लौकिकविपयिताशालितत्साक्षात्कारे तादृग्विशेषदर्शनस्य हेतुत्वकल्पनेच गौरवात् । स्वं पश्यामीत्यनुव्यवसायस्तु सुरभि चन्दनं पश्यामीत्यादिवद्विशेषणांशेऽलौकिकविषयत्वावगाही । न चायोग्यत्वकल्पने लौकिकसाक्षात्कारे स्वत्वस्य प्रतिबन्धकत्वकल्पने गौरवमिति वात्र्यम्, तस्यायोग्यत्वकल्पने लौकिकविषयताविरहादेव तत्प्रत्यक्षवारणसंभवात् । योग्यत्वे तद्गोचरलौकिकप्रत्यक्षसामग्र्यास्तगोचरानुमित्यादौ प्रतिबन्धकत्वकल्पने गौरवादित्याहुरित्यलमतिविस्तरेण ।
१ लत्वविशेषणरहि । २ नव स्वस्वत्ववति परस्वत्वानुपपत्तिस्त ं ।