________________
वादार्थसंग्रहः
[२ भागः
मनसा पात्रमुद्दिश्य भूमौ तोयं विनिक्षिपेत् । विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते ॥ इत्यादिवाक्यात्तादृशस्य दानत्वसिद्धेः । तस्माद्दानमेव परस्वत्वजनकम्। प्रतिग्रहप्रागभावस्यापेक्षणीयत्वान्न प्रतिग्रहवैफल्यम् । अत एव यस्मै दत्तं तस्य प्रतिग्रहेण दातुः स्वत्वनिवृत्तिः ।
अस्तु वा दत्तद्रव्यस्वीकारत्वरूपप्रतिग्रहत्वेन स्वीकर्तव्यद्रव्यदानत्वेन वेति विनिगमकाभावात् दानं स्वस्वत्वध्वंसद्वारा परस्वत्वजनके प्रतिग्रहश्च स्वस्वत्वजनकः । उभयथापि मूल्यग्रहणं विनेति व्यर्थम् । विक्रयस्य परस्वत्वजनकत्वे मानाभावात् । न च विक्रीतद्रव्यस्वीकारत्वं क्रयत्वमित्यत्रापि विनिगमनाविरहः ।
मूल्यदानपूर्वकस्वीकारस्यैव क्रयत्वात् विक्रयत्वस्य गौरवेणानिवेशात् । किंच स्वस्वत्वध्वंसजनकेत्यपि व्यर्थम, अव्यावर्तकत्वात् । अपि चाग्निप्रक्षेपो होम इत्यप्ययुक्तम, देवतोद्देश्यकस्वस्वत्वध्वंसफलकत्यागो यागः स एव प्रक्षेपावच्छिन्नो होमः' इति वाचस्पतिमिश्राद्युक्तेः, 'याग एव विशिष्टदेशप्रक्षेपोपहितो होमः' इति विवेकोक्तेश्च । अस्तु च ऋत्विजा त्यागाद्यजमानस्वत्वध्वंसः, अनुमतदासत्यागाद्विदेशस्थस्वामिस्वत्वध्वंसवन्।
वस्तुतस्तु दानत्वयागत्वहोमत्वादयो मानसप्रत्यक्षगम्या जातिविशेषाः । न च श्राद्धस्य पित्रपेक्षया यागत्वं, ब्राह्मणापेक्षया दानत्वमिति विवेकोक्तेस्तयोः सांकर्यान्न जातित्वमिति वाच्यं, श्राद्धस्य गौणतदुभयरूपत्वात् । वस्तुतः श्राद्धस्य यागत्वमेव, उद्देश्यपित्रादिस्वत्वाजनकत्वात । ब्राह्मणस्य स्वत्वमपि न सार्वत्रिकम् , ब्राह्मणाभावेऽपि श्राद्धोक्तेः । 'पिण्डांस्तु गोजविप्रेभ्यः ' इत्यादिनान्यत्रापि तत्प्रतिपत्तेः ।
विष्णुं यजते इत्यादौ द्वितीयार्थोऽप्युद्देश्यत्वम् । तत्त्वं च तस्येदमित्यारोपज्ञानविषयत्वम् । देवतायाः स्वत्वोपगमे तु यागत्वं दानत्वव्याप्यं, होमत्वं यागत्वव्याप्यमिति सिद्धम् । देवपूजादिकमपि याग एवेति कृतमप्रकृतेन ।
अत एव संसृष्टिस्थलेऽसाधारणस्वत्वनाशोत्तरं साधारणस्वत्वोत्पादान ५ तस्याप्रतिग्रहे न दातुरिति पाठः । २ 'रत्वरूपक्रयत्वेन स्वीकर्तव्यद्रव्यविक्रयत्वेन वा क्रयत्वमित्यत्रापीति पाठः । ३ इत्युक्तमिति पाटः । ४ अनेकस्वामिकत्वरूपसंसं इति पाठः । ५ पादानात् ।