SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ७ ग्रन्थः ] कारकवादार्थः । ३१ त्वाभावात् । क्रियाया एव धात्वर्थतावच्छेदकतया तच्छालिनो घृतस्यैव कर्मत्वात् । द्वितीयार्थश्च वृत्तित्वं तच्च धात्वर्थतावच्छेदकेऽन्वेति । 2 इत्थं च विप्राय गां ददाति, विष्णुं यजते, घृतं जुहोतीत्यादौ मूल्यग्रहणं विना विप्रोद्देश्यकगोवृत्तिस्वस्वत्वध्वंस पर स्वत्वफलक त्यागानुकूलकृतिमान्, विष्णूद्देश्यकस्वस्वत्वध्वंसफलक त्यागानुकूलकृतिमान्, वृतवृत्त्यग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयबोधः । विष्णोरुदेश्यत्वसंबन्धेन स्वस्वत्वध्वंस फलवत्त्वात्कर्मत्वम् । एवं मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंस पर स्वत्व जनकस्त्यागो विक्रयः । मूल्यदानप्रयुक्तस्त्रस्वत्वोत्पादकस्वीकारः क्रयः । दत्तद्रव्यस्य स्वस्वत्वजनकस्त्रीकारः प्रतिग्रहः । तथा च गां विक्रीणाति क्रीणाति प्रतिगृह्णातीत्यादौ गोवृत्तिमूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्व जनकत्यागानुकूलकृतिमान्, गोवृत्तिमूल्यदानप्रयुक्तस्व स्वत्वानुकूलस्त्रीकारानुकूलकृतिमान, गोवृत्तित्तद्रव्यस्वस्वत्वजनकस्वीकारवानिति क्रमेणान्वयधीरिति संप्रदायः । इदमत्रावधेयम् । दानस्य परस्वत्वजनकत्वे तत एव विक्रयवारणे मूल्यग्रहणं विनेति व्यर्थम् । अथ- प्रतिग्रह एव स्वीकारविशेषतया स्वत्वहेतुः । अस्वामिके स्वीकारस्य स्वत्वहेतुत्वकल्पनात् । अत एव ' याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेत्' इत्यादिकं साधु संगच्छते । अन्यथा प्रतिग्रहवैफल्यापत्तेः । दानं तु स्वस्वत्वध्वंसमात्रं जनयत्परस्वत्वप्रयोजकमितिमतम् । तथापि पूर्वोक्तलक्षणमसम्यक् तदुपादानेऽप्युपेक्षायामतिव्याप्तेः । तस्या अपि स्वस्वत्वध्वंसद्वारा परस्वत्वप्रयोजकत्वात् । तद्वारणाय त्यागे वैजात्योपादानस्यावश्यकत्वात् । वस्तुतो दूरस्थपात्रमुद्दिश्य त्यक्तद्रव्यस्य प्रतिग्रहात्प्रागस्वामिकस्यानुद्देश्येन पुरुषेण प्रतिग्रहात्स्वत्वं स्यात् । अन्योद्देश्यकत्यागादेः प्रतिबन्धकत्वे तु गौरवम् । न च तादृशत्यागो दानाभास एव ससंप्रदानको हि त्यागो दानं, संप्रदानं च ददस्वेत्यनुमतिप्रकाशनद्वारा दानक्रियाहेतुत्वेन, न च असन्निहितस्य तत्त्वमिति, न ततो दातुः स्वत्वनाश इति वाच्यम् । तीर्थे संकल्पितं द्रव्यं यदन्यत्र प्रदीयते । दाता तीर्थफलं मुझे प्रतिग्राही न दोषभाक् ॥ १ ध्वंसजनक " २ "दत्तद्रव्यस्वस्वत्वजनकस्वीं ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy