________________
वादार्थसंग्रहः
[२ भागः न्ध्याकाडा । यद्वा कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोधकस्यैव धातो: सकर्मकत्वं गम्यादेः, न तु पततेः । अधःसंयोगरूपफलस्य पर्णान्वितत्वात् । अध इत्यस्य संबन्धिसाकाङ्कतया संबन्धित्वेन पर्णस्यैवान्वयात् । भूतलं हि पर्णस्याधः न तु भूतलस्येति न भूतलं पतीति प्रयोग इति । अथ कथं वृक्षात्पर्णमधः पतति इति प्रयोग इति चेत् , भ्रमात् अत्यधोविवक्षया वा । गतं तिरश्चीनमनूरुसारथेः इत्यत्र व्यक्तिविशेषस्याधो धाम पततीत्यथोत् न दोष इत्याहुः । __ यत्तु त्यजिगम्यादेः स्पन्दाद्यात्मकव्यापारमात्रे शक्तिः, फलस्य द्वितीयादिलभ्यत्वात् । अत एव ग्रामं त्यजति गच्छतीत्यनयोनैकार्थता त्यजिगम्योोंगे द्वितीयादिना विभागसंयोगयोर्बोधनात् । त्यविभागावच्छिनस्पन्दशाब्दत्वस्य, गमेः संयोगावच्छिन्नस्पन्दशाब्दत्वस्य कार्यतावच्छेदकत्वात् । अत एव गमनं त्याग इत्यनयोरपि नैकार्थता । उक्तकार्यकारणभावानुरोधेनात्रापि त्यजिगम्योविभागसंयोगावच्छिन्नस्पन्दे लक्षणाङ्गीकारात् । विभागाद्यवच्छिन्नस्पन्दशाब्दत्वं च विभागादिस्पन्दोभयवैशिष्टयावगाहिशाब्दत्वम् । तेन चैत्रेण ग्रामस्त्यज्यते इत्यादिवाक्यजन्यस्पन्दविविशेषणकविभागादिविशेष्यकशाब्दबोधसंग्रहः । इत्थंच *परसमवेततत्तद्धात्वान्वितफलविशेषशालित्वं तत्तद्धात्वर्थकर्मत्वम् । तेन त्यजादेनोंत्तरदेशादौ कर्मत्वमिति । तन्न, विभागाद्यवच्छिन्नस्पन्दशाब्दत्वस्य जन्यतावच्छेदकत्वे तादृशस्पन्दे शक्तेर्दुर्वारत्वात् । परेषामितरान्विते शक्तिग्रहे इतरांशवद्विभागाद्यंशस्य त्यागस्तु न युक्तः, त्यागगमनयोरेकार्थतावारणाय तत्फलविशिष्टस्पन्दे शक्तिसिद्धेः, विनापि तल्लक्षणातिसंधानं तथा प्रतीतेरिति दिक् । ___ एवं ददातेर्मूल्यग्रहणं विना स्वस्वत्वध्वंसपरस्वत्वजनकत्यागः, यजते. देवतोद्देश्यकस्वस्वत्वध्वसंफलकत्यागः, जुहोतेस्तादृशाग्निप्रक्षेपश्चार्थः । अत एव ऋत्विजां तादृशत्यागाभावेऽपि होतृत्वम् । अग्निप्रक्षेपश्च अग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः । न चैवमग्नौ जुहोतीत्यादौ सप्तम्यर्थस्याग्निसंयोगेऽन्वये निराकाङ्कतापत्तिगिनि वाच्यम् । तत्र संयोगानुकूलक्रियानुकूलव्यापारस्यैव धात्वर्थत्वात् । न च तथाप्यनेः कर्मत्वापत्तिः । संयोगस्य धात्वर्थतावच्छेदकतावच्छेदकतया तद्वतोऽग्नेः कर्म
१ यद्वा कर्मभिन्नेति पाठः । २ पर्णभूतलस्येति पाठः । ३ शाब्दोभयेति पाठः । ४ नुसंधानमिति पाठः।