________________
७ ग्रन्थः]
कारकवादार्थः ।
२९
न वा परसमवेतत्वम्, कर्मवाचकपदार्थतावच्छेदकावच्छिन्नान्वितद्वितीयार्थसमतत्वत्वरूपसामान्यधर्नावच्छिन्नतत्तत्कर्मसमवेतत्वनिष्ठप्रतियोगिताकाभावात्मक-स्वप्रतियोगिकाभाव-संबन्धेन कर्मवाचकपदार्थान्वितद्वितीयार्थसमवेतत्वस्य धात्वर्थक्रियायामन्वयस्वीकारान् । सामान्यरूपेण विशेषाभावानेभ्युपगमेऽपि यब्यक्तेर्द्वितीयार्थसमवेतत्वेऽन्वयस्तव्यक्तिसमवेतत्वत्वावच्छिन्नप्रतियोगिताकाभावात्मकस्वप्रतियोगिकाभावसंबन्धेन कर्मवाचकपदार्थान्वितद्वितीयार्थसमवेतत्वस्य धात्वर्थक्रियायामन्वयस्वीकारादेव न विहगः स्वं प्रयातीति प्रयोगः । ईदृशसंबन्धनान्वयबोधस्य काप्यदृष्टचरत्वेऽपि प्रकृते गत्यन्तरविरहेण स्वीकारात् । अत एव च न कर्मवाचकपदस्य तत्तव्यक्तित्वेन तत्तव्यक्तिबोधकतया सामान्यरूपेण. बोधकतया च युगपट्टत्तिद्वयविरोध इति चेन्न, नव्यनये क्रियाया अव्याप्यवृत्तितया तनिष्ठतदाश्रयद्रव्यसमवेतत्वस्यापि अव्याप्यवृत्तित्वात् , मल्लः स्वं गच्छतीनि प्रयोगप्रसङ्गस्य दुर्वारत्वापत्तेः । एतेन *तत्तक्रियानधिकरणत्वे सति तत्तक्रियावच्छेदकफलशालित्वं तत्तक्रियाकर्मत्वं द्वितीयादेरपि तत्तत्कियानधिकरणत्वमर्थ इत्यपास्तम । शत्यानन्त्यापत्तेश्च ।
यत्तु क्रियान्वयि परसमवेतत्वमपेक्ष्य कन्वयि परत्वमेव लाघवात्कर्मप्रत्ययार्थ इति । तन्न, द्वितीयार्थफलपरसमवेतत्वयोरेकान्वयित्वे लाघवान्, ग्रामो गमेः कर्म न तु चैत्र इत्यादौ फलपरसमवेतक्रियाजन्यत्वघटितस्यैव कर्मपदार्थतया तस्यैव कर्मप्रत्ययार्थत्वान , गम्यते ग्रामः स्वयमेवेत्यादौ परत्वान्वयिविरहाचेति दिक् ।
अथैवमपि पतेरधःसंयोगावच्छिन्नस्पन्दार्थकतया धात्वर्थतावच्छेदकफलशालिनो भूतलादेः कर्मत्वे वृक्षात्पर्ण भूतलं पततीति प्रयोगः स्यादिति चेन् , तथा विवक्षायां भवत्येव । अत एव द्वितीया श्रिता-' इति सूत्रे पतितशब्दयोगे द्वितीयासमासविधानं तदुदाहरणं च नरकं पतितो नरकपतित इति साधु संगच्छते । कचित्सतम्यपि साधुः । यथा भूमौ पतति, ग्रामे गच्छतीत्यादौ ।
परे तु भूतलादेः कर्मत्वेऽपि न द्वितीया । यत्र फलस्य संबन्ध्याकाला तत्रैव तत्स्वीकारात् । अत्र तु फलम्याधोदेशवृत्तितया उपस्थितेने संब
१ नेति नास्ति । २ फलत्वे इति पाठः ।