________________
૨૮
वादार्थसंग्रहः . [२ भागः तथा च भूमि प्रयातीत्यतो भूमिभिन्नसमवेत-भूमिवृत्तिसंयोगजनक-स्पन्दानुकूलकृतिमानित्यन्वयबोधः । भूमिर्गम्यत इत्यादौ कर्माख्यातस्थले फलं परसमवेतत्वं चाख्यातार्थः । भूमिपदार्थस्य परत्वे विशेषणत्वेन, फलं प्रति विशेष्यत्वेन चान्वयः । तथा च भूमिभिन्नसमवेतक्रियाजन्यफलशालिनी भूमिरिति । एवं च स्वभिन्नसमवेतं स्ववृत्तिसंयोगजनकं यन्मल्लान्तरवृत्तिगमनं तदनुकूलकृतिमत्त्वस्य स्वस्मिन्नभावादेव न मल्लः स्त्रं गच्छतीति प्रयोगः । ___ नन्वत्र परत्वे स्वप्रकृत्याद्यर्थस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन प्रतियोगितामात्रेण वान्वयः। नाद्यः, पृथ्वी प्रयातिखग इत्यादौ अनन्त्रयापत्तेः । खगस्य पृथ्वीत्वावच्छिन्नभिन्नत्वाभावात्। न द्वितीयः, स्वात्मन्यपि स्वघंटोभयभेदस्य सत्त्वात् स्वं प्रयातीत्यापत्तेरिति चेन्न, द्वितीयादार्थफले यध्यक्तेरन्वयस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन प्रकृत्यर्थस्य कर्माख्यातार्थफलान्वयिनश्च परत्वेऽन्वयात् । इत्थं च पृथ्वी प्रयातीत्यादौ यत्पृथिवीव्यक्तिवृत्तिसंयोगजनकत्वं प्रयाणस्य तव्यक्तिभिन्नत्वं विहगेस्तीति न दोषः।
परे तुपृथिवीं प्रयातीत्यादौ पृथिवीपदं कर्मीभूततत्तत्पृथिवीव्यक्तिपरमेवमन्यत्र कर्मवाचकं सामान्यपदं लक्षणया विशेषपरम् । इत्थं चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वव्युत्पत्तेर्न भङ्ग इत्याहुः । .
यत्तु परसमवेतत्वं नार्थः किंतु अन्योन्याभावप्रतियोगितावच्छेदकत्वं क्रियान्वयि द्वितीयार्थः।तथा च भूमिवृत्तिसंयोगजनक-भूमिनिष्ठान्योन्याभावप्रतियोगितावच्छेदक-प्रयाणानुकूलकृतिमानित्यर्थः । स्ववृत्तिक्रियायाः स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वान्न स्वं प्रयातीति प्रयोग इति । तन्न, एवमपि येन मल्लेन मल्लान्तरं न गतं सोऽपि मल्लो मल्लं गच्छतीति प्रयोगापत्तेः । मल्लान्तरनिष्ठभेदप्रतियोगितावच्छेदिकायास्तन्मल्लवृत्तिक्रियायास्तन्मल्लवृत्तिभूमिसंयोगजनकत्वात् । यन्मल्लव्यक्तेः फलान्वयस्तस्या एवान्योन्याभावेऽन्वयोक्तौ ( दोषवारणे तु) तब्यक्तित्वादेः प्रकारत्वे (शक्त्यानन्त्यम् । कथंचित्) कर्मवाचकपदस्य तद्व्यक्तित्वावच्छिन्नलक्षणास्वीकारे युगपद्वृत्तिद्वयविरोधप्रसङ्गः ।
ननु नान्योन्याभावप्रतियोगितावच्छेदकत्वं क्रियान्वयि द्वितीयार्थः १ पृथिवीत्वावच्छिन्नत्वात्। २ खगघटोभयेति पाठः । ३ कर्मत्ववत्तदिति पाठः ।