________________
७ ग्रन्थः ]
कारकवादार्थः । कारकान्तरप्रयोजकत्वं कर्तृत्वम् * सत्यन्तेन पुरुषादिजन्यसंयोगरूपन्यापारवत्त्वरूपतत्प्रयोज्यत्ववतः कुठारादेर्युदासः इति तन्न, ईश्वरप्रयोज्यानां जीवानां कर्तृत्वानापत्तः । दण्डजन्यसंयोगरूपव्यापारवति कुलालादावव्याप्तिश्चेति दिक् ।
कर्मत्ववादः। अथ किं कर्मत्वं ? न *करणव्यापार्यत्वम् । तद्धि करणजन्यव्यापारवत्त्वं दात्रेण धान्यं लुनातीत्यादौ हस्तादिकरणव्यापार्ये दावादावतिव्याप्तम् । नापि *परसमवेतक्रियाजन्यफलशालित्वम् * गमिपत्योः कर्मत्वस्य पूर्वस्मिन्देश, त्यजेश्वोत्तरस्मिन्देशे, स्पन्देः पूर्वपरयोः प्रसङ्गात् । नदी वर्धत इत्यादी वृद्धरवयवोपचयरूपायाः परंपरया फलस्य तीरप्राप्रिरूपस्याश्रय तीरे कर्मत्वापत्तश्चेति चेत्, अत्र वदन्ति
धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् । तादृशं च फलं गमेः संयोगस्त्यजेविभागः पतेरधःसंयोगस्तदवच्छिन्ने स्पन्दे तेषां शक्तेः, स्पन्दमात्रे तेषां शक्तौ पर्यायतापत्तेः, स्पन्देव॒ध्धातोश्च न फलावच्छिन्नव्यापार शक्तिरिति न कोऽपि दोषः । फलावच्छिन्नव्यापारबोधकत्वादेव च धातूनां सकर्मकत्वव्यवहारो मुख्यः । जानातीत्यादीनां तु नामाान्वितोद्देश्यत्वातिरिक्तविषयत्वरूपविभक्त्यर्थान्वय्यर्थकत्वं गौणं सकर्मकत्वम् । घटं जानातीत्यादितो घटविषयिताशालिज्ञानाश्रयत्ववानिति बोधात । तादृशथातुयोग एव च कर्मप्रत्ययः । अत एवाभुजानेऽपि भोजनाय यतते इति प्रयोगात् यतधात्वर्थे नामान्वितस्य चतुर्यर्थोद्देश्यत्वस्यैवान्वयात् न यतेः सकर्मकत्वं, न वा भोजनं यतते इति प्रयोगः। _ 'भूमि प्रयाति विहगो विजहाति महीरुहं नतु स्वात्मानम्' इतिप्रयोगात स्वस्य धात्वर्थतावच्छेदकसंयोगविभागरूपफलशालित्वेपि कर्मत्वाभावात् परसमंवतक्रियाजन्यत्वमपि धात्वर्थतावच्छेदकफले निवेश्यम्। न चैवमपि मल्लो मल्लं गच्छतीत्यादौ उभयकर्मजसंयोगरूपफलस्य तादृशत्वात्स्वकर्तृकक्रियाकर्मत्वरूपव्यवहारः स्वस्मिन् स्यादिति वाच्यम्। परसमवेतयक्रियाजन्यतादृशफलशालित्वं यत्र तत्र तक्रियाकर्मत्वस्य स्वीकागत । इत्थं च द्वितीयादेः क्रियान्वयि परसमवेतत्वमप्यर्थः । परत्वं स्वप्रकृत्यर्थापेक्षया सुपा, स्वार्थफलान्वय्यपेक्षया कर्माख्यातेन च बोध्यते ।