________________
२६
वादार्थसंग्रहः
[२ भागः कृताकृतविभागादिना सिद्धयत्नशक्तिकेन कृधातुना तृजन्तेन सिद्धस्य कर्तृपदस्य यत्नाश्रयबोधकत्वाच । अचेतने कर्तृपदप्रयोगस्तु गौणः । वृष्टिगुरुतरभारोत्तोलनादिक्रियाविषयकयत्नसत्त्वेऽपि तत्तक्रियाया अनिष्पत्तौ तत्तक्रियाकर्तृत्वाव्यवहाराद् विषयत्वं विहायानुकूलत्वमुपात्तम् । यदि च मत्तो भूतं न तु मया कृतमिति व्यपदेशान्नान्तरीयककृतिसाध्यस्य पिष्टमध्यस्थशर्कराभोजनस्य न कर्तृत्वं तदा विषयत्वमपि निवेश्यम् । तच्च साध्यत्वेन । तेन यागादिकृतेरुद्देश्यत्वेन स्वर्गादिविषयकत्वेऽपिन यागादिकर्तुः स्वर्गकर्तृत्वम् । अस्मदादिकर्तृकपाकादिकर्तृत्वमीश्वरस्येष्ठम् । तथा विवक्षायामीशः पचतीति प्रयोगोऽपीष्ट एव । नो चेत् कार्यत्वानवच्छिनजन्यतानिरूपितत्वमसाधारण(मनुकूल)त्वं निवेश्यमिति नैयायिकाः ।
वैयाकरणास्तु 'अनभिहिते कर्तरि' इत्यादावचेतनेऽपि कर्तृपदप्रयोगाक्रियाश्रयत्वमेव कर्तृत्वम्। कारककर्मादिपदवत्कृधातुरप्यत्र क्रियार्थक एव । आश्रयत्वमिह तत्तदाख्यातार्थद्वारा। तथा च ऋयगाद्यसमभिव्याहृताख्यातेन यद्धात्वान्वितयद्धर्मवत्त्वं बोध्यते तद्धात्वर्थनिरूपिततद्धर्मवत्त्वं तद्धात्वर्थकर्तृत्वम् * । यथा पचतीत्यादौ पाकानुकूलच्यापारवत्त्वम् , जानातीत्यादी ज्ञानाश्रयत्वम्, नश्यतीत्यादौ नाशप्रतियोगित्वम् इति । चैत्रण तण्डुलः पच्यते इत्यादौ पाकजन्यफलाश्रयत्ववारणाय यगाद्यसमभिव्याहृतेति । अत्र चैत्रादेः कर्तृत्वं तु पचतीत्याद्याख्यातबोध्यधर्ममादायैवेति बोध्यम् । धात्वान्वितद्वितीयाद्यर्थकर्मत्वकरणत्वादिवारणायाख्यातेनेति । जानातीत्याद्याख्यातार्थ आश्रयत्वम् , न पाककर्तृत्वम् , हन्तीत्यादौ हिंसाश्रयत्वम्, न गमनकर्तृत्वमित्येतत्संपत्तये यत्तदिति धात्वर्थविशेषणम् । यदि च काष्ठं पचति, स्थाली पचतीत्यादिप्रयोगवशात्करणादीनां कर्तृत्वमिष्टम्, पच्यत ओदनः स्वयमेवेत्यादौ कर्मकर्तरि कर्मणोऽपि तदिष्टम्
ओदनः स्वं पचतीत्यप्रयोगस्त्वसाधुत्वादिति किमाख्यातपदेनेति विभाव्यते तदा कर्मत्वविशिष्टस्य कर्तृरूपतावारणाय तदुपादेयम् । नहि कर्मत्वादेः कर्तृत्वरूपत्वे 'अनभिहिते कर्तरि ' इत्यनुशासनार्थः संगच्छत इत्याहुः।
यत्तु 'स्वतन्त्रः कर्ता' इति पाणिनिसूत्रात्कारकान्तराप्रयोज्यत्वे सति १ विष्टीति पाठः । २ इहाख्यातार्थः । ३ । कर्तृकर्मणोपि। ४ स्वयं पच; स्वं पचतीति प्रयोगस्तु साधुः।