________________
७ ग्रन्थः ]
कारकवादार्थः । गां दोग्धि पयः अजां ग्रामं नयतीत्यादौ गौणमुख्यकर्मद्वयमपि लक्ष्यम् । अत्र हि द्रवद्रव्यविभागानुकूलक्रियानुकूलव्यापारविशेषः कर्तृनिष्ठो दुहेग्र्थः । वायुर्वृक्षं पर्ण दोग्धीति वारणाय द्रवद्रव्येति देयम् । मेघो गगनं जलं दोग्धीति वारणाय विशेषेति । विशेषो हि दुहिधातुप्रयोगगम्यः । इत्थं च दवद्रव्येति न देयमित्यपि वदन्ति । संयोगानुकूलक्रियानुकूलव्यापागे नीबातोरर्थः ।
तत्राद्ये विभागे गामित्यस्य क्रियायां पय इत्यस्यान्वयानोवृत्तिविभागानुकूलपयोवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थः। द्वितीये श्राममित्यस्य संयोगेऽजामित्यस्य क्रियायामन्वयाग्रामवृत्तिसंयोगानुकूलाजावृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थः । साक्षाद्धात्वर्थनावच्छेदकनिरुक्तक्रियाद्वयम्पफलान्वयिनान्वयिनोरजापयसोर्मुख्यकर्मत्व८ । तादशक्रियारूपफलावच्छेदकविभागसंयोगम्पफलदयान्वयिनान्वयिनोोग्रामयोगौणं कर्मत्वम् । उभयत्रापि धात्वान्वितविभक्तयान्वितत्वमस्ति । फलद्वयम्यापि धात्वर्थत्वात् । अत एवं कर्मद्वयसाकाङ्कफलबोकधातुत्वं द्विकर्मकत्वं सूपपादम् ।
यत्तु विभागानुकूलक्रिया दुहेरर्थः, संयोगानुकूलक्रिया नयतेपर्थः, नतु तदुभयानुकूलकर्तृव्यापारः । कर्मद्वयस्याप्येकत्र फले अन्वय इति । तन्न, पयोऽजयोः कर्मत्वानुपपत्ते:, परसमवेतत्वस्य क्रियायामभावात् । कर्मद्वयग्याप्येकत्र फलेऽन्वये च गौणमुख्यव्यवहागे न स्यात् । एतेन विभागाद्यनुकूला कर्तृगना चेव दुहादेगर्थ इत्यपाम्तम् , फलद्वयाप्रवेशे गौणमुख्यव्यवहागनुपपत्तेः ।
यदपि गामित्यस्यार्थों गोवृत्तित्वं पयस्येवान्वेतीति गौणं कर्म न लक्ष्यमिति तदपि न, गौ: पयो दुह्यते इत्यादौ गोः कर्मत्वस्य दुरुपपादत्वात् । अजां ग्राममित्यादौ ग्रामवृत्तित्वस्य प्रागजायामसत्त्वेनान्वयायोगात् । काशीतः प्रयागे नीयमानामनां काशी नयाति प्रयोगापत्तेश्च ।
कर्तृत्ववादः। तत्रतत्तत्क्रियानुकूलकृतिमत्त्वं तत्तक्रियाकर्तृत्वम् । काष्ठादौ पाकाद्यनुकूलव्यापारवत्त्वप्रतिसंधानेऽपि कर्तृपदाप्रयोगात् , ५ तञ्चति पाठः । २ यतावच्छेदकत्वात् ।