________________
जयरामभट्टाचार्यविरचितः कारकवादार्थः ७.
नत्वा शंभोः पदाम्भोजं जयरामः समासतः । करोति कारकव्याख्यामिह संख्यावतां मुदे ॥ १॥.
कारकत्ववादः । तत्र कारकाणि कर्तृकर्मकरणसंप्रदानापादानाधिकरणानि षट् । तत्त्वं च न*क्रियानिमित्तत्वम्*। चैत्रस्य तण्डुलं पचतीत्यादौ संबन्धिनि चैत्रादावतिव्याप्तेः । अनुमतिप्रकाशनादिद्वारा संप्रदानादेरिव तण्डुलादिसं. पादनद्वारा संबन्धिनोऽपि पाकादिक्रियानिमित्तत्वात् । किंतु
क्रियान्वितविभक्त्यान्वितत्वम् । . अस्ति च कर्तृकर्मादौ क्रियान्विततिसुब्बिभक्त्यर्थान्वयः, न तूदाहृते संबन्धिनि । षष्ठयर्थसंबन्धस्य तण्डुलादिनामार्थान्विततया क्रियानन्वितत्वात् । चैत्रस्य पचतीत्यादावपि तण्डुलादिपदाथ्याहारेणैव बोधः, षष्ठयर्थसंबन्धस्य तण्डुलादिनामार्थेनैव क्रियायाः कर्मत्वादिनैव साकडूत्वात्परस्पराकाङ्क्षाविरहात् । ओदनस्य भोक्ता, चैत्रस्य पाक इत्यादौ कर्मत्वकर्तृत्वार्थिका षष्ठी कारकविभक्तिरेव । ' कर्तृकर्मणोः कृति' इत्यनेन तद्विधानात् । अत एव संबन्धस्य न कारकत्वं क्रियायोगाभावादिति शाब्दिकाः । अत एव 'गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक्स्वभेषजैः' इत्यादै, 'सा लक्ष्मीरुपकुरुते यया परेषाम् ' इत्यादौ च रोगे विपत्तौ चेत्यादिनामाध्याहारेणैव बोधः । यदि च विनाध्याहारं षष्टयर्थसंबन्धस्य क्रियायामन्वयः प्रामाणिकस्तदा क्रियान्वितकर्तृत्वकर्मत्वादिषट्रान्यतमान्वयित्वं कारकत्वं बोध्यम् । अत एव
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरी हन्ति सीनि पुष्कलको हतः॥ इत्यादौ निमित्तादेरपि न कारकत्वमित्येता उपपदविभक्तयो न तु कारकविभक्तयः।