________________
६ ग्रन्थः ] षट्कारकविवेचनम् । न निरूपकत्वेनान्वयः, महिष्यादिदोहनसमानकालीने तथाऽप्रयोगात् । नापि गोदोहनस्य, धातुना गोदोहनत्वेनानुपस्थितेः । किं तु दण्डी पुरुषो गच्छतीत्यत्र यथा परंपरया पुरुषविशेषणतापन्नदण्डसमानकालीनत्वं गमने भासते तथा गोविशेषणकर्मताविशेषणतापन्नस्यैव दोहनस्य समानकालीनत्वमागमने भासते इति । इत्थं च तादृशदोहनसमानकालीनगमनानुकूलातीतकृतिमानिति आद्यस्य वाक्यार्थः ।
दुग्धास्वागत इत्यादौ तु न तथान्वयः । दोहनस्यातीतत्वेन बोधात् । किं तु बर्तमानध्वंसप्रतियोगिकृतिजन्यदोहनकर्मतापन्नासु गोष्वागत इति । वाक्यार्थः । गोविशेषणकर्मताविशेषणदोहनविशेषणकृतिविशेषणप्रतियोगित्वविशेषणतापन्नस्य वर्तमानध्वंसस्य समानकालीनत्वमागमने भासते । तथा च तादृशवर्तमानध्वंससमानकालीनागमनानुकूलकृतिमानिति वाक्यार्थः ।
गुणकर्मान्यत्वे सति सत्त्वादित्यादौ च देशिकं, तत्र हि गुणकर्मान्यत्वसामानाधिकरण्यस्य सत्त्वे बोधात् । यद्यपि ' यस्य च भावेन भावलक्षणम्' इति सूत्रे क्रिययोः सामानाधिकरण्ये सप्तमीविधानान्नामार्थयोः सामानाधिकरण्ये सप्तमी न युक्ता । नथापि गुणकान्यत्वे सति सत्वादित्यभियुक्तप्रयोगदर्शनात् सूत्रे भावपदं धर्मपरतया व्याख्याय तत्संगमनीयम् ।
यस्य च धर्मेण धर्मान्तरं निरक्तस्वसामानाधिकरण्येन प्रतिपाद्यते नत्र सप्तमीति सूत्रार्थः । यस्य क्रियया अन्यस्य क्रियान्तरं लक्ष्यत इति व्याख्यानं तु शाब्दिकानां प्रायिकमिति । एवमन्यत्राप्यूह्यम् । इति शब्दार्थसारमार्या भवानन्दसिद्धान्तवागीशविरचित
षद्कारकविवेचनं समाप्तम् ।
-
१ गुणसमाधिकरणसत्त्वस्येति पाठः ।