________________
वादार्थसंग्रहः
[२ भागः
निरूपकत्वादेः संबन्धस्य प्रतियोगितावच्छेदकत्वाभावानमन्वयानुपपत्त्या आधेयत्वं सप्तम्यर्थः । तत्र च प्रकृत्यर्थस्य निरूपकतया प्रथमान्तार्थस्य चाधिकरणतयान्वये भूतलनिरूपिताधेयत्ववान् घट इत्यन्वयबोध इति नव्याः ।
चर्मणि द्वीपिनं हन्तीत्यादौ निमित्तसप्तमी । निमित्तत्वमुद्देश्यत्वम् । तञ्च फलत्वेन फलवत्त्वेन वा इच्छाविषयत्वम् । प्रथमे मशकनिवृत्तौ धूमं करोतीति । द्वितीये तु चर्मणि द्वीपिनं हन्तीत्यादि । चर्मादेः सिद्धत्वादिच्छाविषयत्वाभावेऽपि साध्यीभूतयथेष्टविनियोगरूपफलवत्त्वेनोद्देश्यत्वात् । अत्र च यथायथं तादृशेच्छा सप्तम्यर्थः । तस्याश्च धात्वर्थे प्रयोज्यत्वसंबन्धेनान्वयः । तथाच मशकनिवृत्तिविषयकेच्छाप्रयोज्यधूमकरणाश्रयः । चर्मविषयकयथेष्टविनियोगप्रकारकेच्छाप्रयोज्यद्वीपिकर्मकहननानुकूलकृतिमानिति च क्रमेणान्वयबोधः । अत्र च निमित्तात्कर्मयोग इत्यनुशासनात् यत्किञ्चित्कर्मप्रकारकबोधजनकधातुयोगो नियामकः । सकर्मकघातौ कर्मबोधकसमभिव्याहारेण कर्मप्रकारकबोधजनकता । यथा द्वीपिनं हन्तीत्यादौ । ___ अकर्मकधातौ च कर्मविशिष्टार्थशक्त्या । 'अविद्यारजनीक्षये यदुदेति' इत्यत्र उदयगिरिशिखरमारोहतीत्यर्थकरणात् कर्मविशिष्टबोधजनकत्वमविशिष्टम् । अत्र रजनीक्षयस्य सूर्योदयाजन्यत्वेऽपि निमित्तत्वं ज्ञानविषयत्वेनोद्देश्यत्वम् । तेन लोकानां रजनीक्षयज्ञानार्थ यदुदेतीत्यर्थः ।
शरदि पुष्प्यन्ति सप्तच्छदा इत्यादावुत्पत्तिरपि सप्तम्यर्थः, शरदुत्पत्तिकपुष्पाश्रयाः सप्तच्छदाः इति वाक्यार्थः । न च शरदुत्पत्तिकपुष्पाश्रये चम्पकादावपि तथा प्रयोगः स्यादिति वाच्यम् । सप्तच्छदस्य पुष्पाश्रयत्वे लब्धे समानवित्तिवेद्यतया सप्तच्छदवृत्तित्वस्यापि पुष्पेषु लाभात्तदवच्छेदेन शरदुत्पत्तिकत्वान्वयस्य व्युत्पत्तिसिद्धत्वात् । चम्पकादिपुष्पत्वावच्छेदेन शरदुत्पत्तिकत्वाभावेन तथा प्रयोगाभावात् । धातोर्वा सप्तच्छदीयपुष्पे लक्षणेत्यपि कश्चित्
सति सप्तम्याः सामानाधिकरण्यमर्थः । तच्च क्वचित्कालिकं, कचिदैशिकम् । तत्राद्यं समानकालीनत्वपर्यवसन्नं यथा गोषु दुह्यमानास्वागतः दुग्धास्वागत इत्यादौ । अत्र च समानकालीनत्वे सप्तम्यर्थे दोहनमात्रस्य १ प्रतियोगितानवच्छेदकत्वादिति पाठः। २ कर्मविशिष्टस्वार्थशक्त्येति पाठः ।