________________
६ ग्रन्थः ] षट्कारकविवेचनम् ।
स चातिरिक्तोऽनतिरिक्तो वेत्यन्यदेतत् । तत्रं गेहे चैत्रः पचतीत्यत्र पाकस्याधःसंतापनस्य साक्षाद्गहावृत्तित्वेऽपि कर्तृघटितपरंपराधिकरणत्वमाधेयत्वं वा पाकादिक्रियान्वितं सप्तम्यर्थः । स्थाल्यामोदनं पचतीत्यत्राध:संतापनस्य पाकस्य साक्षात्स्थालावृत्तित्वेऽपि कर्मघटितपरंपरयाधिकरणत्वमाधेयत्वं वा सप्तम्यर्थः पाकादावन्वेति । अनुभवबलेन तथैव व्युत्पत्तिरिति वृद्धाः । तदाहुः____ कर्तृकर्मव्यवहितामसाक्षाद्वारयन् क्रियाम् !
उपकुर्वन् क्रियाशक्तौ शास्त्रेऽधिकरणं स्मृतम् । इति । एवं च*कर्तृकर्मान्यतरद्वारा क्रियाश्रयत्वे सति तक्रियोपकारकत्वमधिकरणत्वम् इति ।
वस्तुतस्तु-*परंपरया क्रियाश्रयत्वमेवाधिकरणत्वम्*अत एव प्राङ्गणस्थेन पुंसा दीर्घदण्डादिना काष्ठादिचालनद्वारा गृहान्तर्वर्तिपाककरणे, कर्तृद्वारा क्रियानाश्रयत्वेऽपि गृहस्य, गृहे पचतीति प्रयोगः । न चैवं परंपरयति व्यर्थम्। अधःसंतापनं हि अधोवह्निसंयोगानुकूलकाष्ठवढ्यादिव्यापारस्तस्य च साक्षात्काष्ठवह्नयादिवृत्तित्वेऽपि काष्ठे वह्नौ वा पचतीति प्रयोगाभावात् । एवं पथि गच्छतीतिवत् स्वस्मिन् गच्छतीति प्रयोगाभावादपि च तत्पदामिति । क्रियानिरूपिताधिकरणत्वस्यैव सर्वत्र सप्तम्यर्थत्वे विना क्रियायोगं भूतले घट इत्यादि प्रयोगो न स्यादिति वाच्यम् । इयत्वादिति वैयाकरणाः ।
अधिकरणत्वमाधेयत्वं च सप्तम्यर्थः । स च यत्र क्रियान्वयी तत्र कारकव्यवहारः । अत एव भूतले घट इत्यादौ क्रियाशून्यवाक्यात्भूतलाधेया घट इति शाब्दबोधो भवत्येवेति न्यायविदः।
गृहे स्थाल्यामोदनं पचतीत्यत्र निरुक्तसंबन्धेन गेहाधिकरणकस्थाल्यधिकरणकौदनकर्मकपाकानुकूलकृतिमानित्यन्वयधीः । भूतले घट इत्यादो सप्तम्या अधिकरणत्वमर्थः, तत्र च प्रकृत्यर्थस्याश्रयत्वेन प्रथमान्तार्थस्य च निरूपकत्वेनान्वयः, भूतलनिष्ठाधिकरणतानिरूपको घट इत्यन्वयवोध इति प्राञ्चः ।
१ अत्र गेहे चैत्रः पचतीति पाठः। २ काष्ठेन वह्नौ इति पाठः । ३ गच्छती त्यप्रयोगादपि इति पाटः । ४ वेति पाठः।