________________
वादार्थसंग्रहः
[२ भागः पितहेतुत्वार्थकपञ्चम्या हेताविति सूत्रेणैव संभवादिति वाच्यम् ! उत्पत्तेरहेतुकत्वेऽपि सावधिकत्वादुत्पत्तिनिरूपिततादृशस्वरूपसंबन्धस्य हेतुत्वादन्यत्वेन हेताविति सूत्रेण पञ्चम्या अलाभात् ॥
अधिकरणत्वविवेचनम् । अधिकरणत्वं च न*धर्मसंबन्ध:*संबन्धस्य संयोगादिरूपस्य द्विष्ठत्वात् बदरादेरपि कुण्डाधारतापत्तेः । नच कुण्डं न बदरधर्म इति वाच्यम् । तर्हि स्वधर्मसंबन्धोऽधिकरणत्वमिति पर्यवसितम् । स्वधर्मत्वं च स्वाधेयत्वम् । तच्च यदि स्वनिरूपिताधिकरणसंबन्धित्वं तदा अन्योन्याश्रयः । अन्यच दुर्वचम् ।
नापिउत्पत्तये स्थितये ज्ञप्तये चापेक्षणीयमधिकरणम्*उत्पत्तये अपेक्षणीयं च कार्यस्य समवायिकारणं, स्थितये घटादेर्भूतलादि, ज्ञप्तये च जात्यादेः समवायि, अभावसमवाययोः स्वरूपसंबन्धीति वाच्यम् । अपेक्षणीयत्वं हि न जनकत्वमतीन्द्रियजात्याधिकरणाव्याप्तेः ( तस्य लौकिकप्रत्यक्षाभावात्संनिक घटकत्वेनाजनकत्वात् ,) दण्डादेटाचविकरणतापत्तेश्च । नाप्यधिकरण, माननियात् ।
नाप-*तदिन्नत्वे सति तत्पतनप्रतिबन्धकसंयोगवन्मूर्तत्वं पतनाश्रयद्रव्यस्याधिकरणत्वम् मूर्तत्वेन विशेषणात् ब्रह्माण्डधारकसंयोगाश्रयेऽपीश्वरे नातिव्याप्तिः। पतनशून्यमूर्तस्यापि विलक्षणतत्संयोगवत्त्वमधिकरणत्वम् । अत एव पङ्कजकोरकान्तरोत्पन्नविनष्टभ्रेमरस्याप्यधिकरणे पतनाप्रसिद्धथा नाव्याप्तिः । गुणक्रियाजात्यादेश्च तत्समवायित्वमिति । अभावसमवायादीनां च तत्स्वरूपसंबन्धित्वमेवं परंपरासंबन्धेनापि निर्वाच्यमिति वाच्यम् । अननुगमात् । भूतले घट इत्यादौ उक्तरूपेण सप्तम्यर्थतायां गौरवादननुभवाच । .. किंतु प्रतियोगित्वानुयोगित्ववदाधेयत्वमधिकरणत्वं चविलक्षणप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः । १ अभावादिति पाठः । २ यत्वमधिकरणत्वमिति पाठः। ३ योः स्वरूपमस्तीति; अभावसंबन्धीति च पाठः । ४ मक्षतम् इति पाठः । ५ भ्रमराधिकरणेऽपि तत्पतनेति
पाठः।