________________
६ ग्रन्थः ] षट्कारकविवेचनम् । त्यादावपि स एव धात्वर्थः । परंतु अत्र वल्मीकायोर्ध्वदेशो बहिःपदार्थ इति विशेषः । ___ कृष्णात्पराजयते शिशुपालः, अध्ययनात्पराजयते बालः, इत्यादौ च धातोरसहिष्णुता पञ्चम्याः कर्मत्वमाख्यातस्याश्रयत्वमर्थः । श्रीकृष्णं न सहते अध्ययनं न सहत इति तदर्थविवरणात् । असहिष्णुता च द्वेषविशेषोऽभिभवाशक्यत्वज्ञानमशक्यत्वज्ञानं वा । इत्थं च श्रीकृष्णविषयकद्वेषवान् श्रीकृष्णविषयकाभिभवाशक्यत्वज्ञानवान् वा इत्याद्यस्य अध्ययनविषयकाशक्यत्वज्ञानवानित्यन्यस्य बोधः ।
विप्राद्धनमादत्ते इत्यादौ पञ्चम्या यथेष्टविनियोगोऽर्थो न तु स्वत्वं चौराद्धनमादत्ते इत्यादौ चौरस्य स्वत्वाभावेन तदसंभवात् । धातोरपि यथेष्टविनियोगफलकस्वीकारोऽर्थो न तु स्वत्वजनकस्वीकारः, विप्राद्धनमादत्ते चौर इत्यादौ चौरस्य तदसंभवात् । पञ्चम्यर्थस्य विनियोगस्य चाव्यवाहतोत्तरत्वसंबन्धेन धात्वर्थतावच्छेदकविनियोगेऽन्वयः । अव्यवहितोत्तरत्वं च स्वसमानविषयकपुरुषान्तरीयविनियोगव्यवहितभिन्नत्वं, तेन शूद्रतः प्रतिगृह्य विप्रेण दत्तं धनमादत्तरि शूद्रादादत्ते इति न प्रयोगः । इत्थं च विप्रीययथेष्टविनियोगाव्यवहितोत्तरधनवृत्तियथेष्टविनियोगफलकस्वीकारवानित्यन्वयबोधः । ___ अधर्माज्जुगुप्सत इत्यत्र पञ्चम्याः कर्मत्वं धातोनिन्दार्थः । अधर्म निन्दतीत्यर्थः । अधर्माद्विरमतीत्यादौ धातोः करणानन्तरमकरणं पञ्चम्याः कर्मत्वमर्थः । स च करणेऽकरणेचान्वेति । अधर्मकृत्वा पुनर्न करोतीत्यर्थः । एवं धर्मात्प्रमाद्यतीत्यादौ पञ्चम्या विषयित्वं धातोरनवधानमाख्यातस्य चाश्रयत्वमर्थः । धर्मविषयकानवधानाश्रय इत्यन्वयधीः ।
उपाध्यायादन्तर्धत्ते शिष्य इत्यादौ धातोः स्वविषयकप्रत्यक्षविरोधिव्यापारः, पञ्चम्याः संबन्धित्वं धात्वर्थतावच्छेदकप्रत्यक्षान्वितम्, आख्यातस्य कृतिरर्थः । उपाध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमानिति चान्वयधीः । __ दण्डाद्धट: धूमादग्निमानित्यादौ पञ्चमी नापादाने क्रियायोगाभावात् । किंतु जनकत्वज्ञापकत्वरूपे हेतुत्वे जन्यत्वज्ञाप्यत्वरूपे वा हेतुमत्त्वे हेतावितिसूत्रेणानुशिष्टा । न चैवं जनिकर्तुः प्रकृतिरिति सूत्रं व्यर्थम् । काष्ठात्पचतीत्यादाविव दण्डाज्जायत इत्यादावपि उत्पत्तिरूपधात्वर्थनिरू